Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
इदं व्रतं द्वादशभेदभिन्नं, यः श्रावकीयं जिननाथदृष्टम् ।
करोति संसारनिपातभीतः, प्रयाति कल्याणमसौ समस्तम् ॥ १४७६ ॥ श्रुत्वा वाचमशेषकल्मषमुषं साधोव्रताशंसिनीं । नत्वा केवलिपादपङ्कजयुगं मामरेन्द्रार्चितम् । आत्मानं व्रतरत्नभूषितमसौ चक्रे विशुद्धाशयो। मित्रादुत्तमतो न किं भुवि नरःप्राप्नोति सद्वस्त्वहो ? ॥१४७७॥
तं विलोक्य जिनधर्मभावितं, तुष्यति स्म जितशत्रुदेहजः। स्वश्रमे हि फलिते विलोकिते, संमदो हृदि न कस्य जायते ॥ १४७८॥ चतुर्विधं श्रावकधर्ममुज्ज्वलं, मुदा दधानी कमनीयभूषणौ। विनिन्यतः कालममू खगाङ्गजौ, परस्परं प्रेमनिबद्धमानसौ ॥ १४७९ ॥ आरुह्यानकभूषौ स्फुरितमणिगणभ्राजमानं विमानम् । मर्त्य क्षेत्रस्थसर्वप्रथितजिनगृहान्तर्निविष्टाहदर्चाः । क्षित्यां तौ वन्दमानौ सततमचरतां देवराजाविवाच्यौं । कुर्वाणाः शुद्धबोधा निजहितचरितं न प्रमाद्यन्ति सन्तः ॥१४८० ॥ श्रीमद्गौतमशुद्धहीरविजयाचार्या जयन्ति क्षिती।
Jain Education
a
l
For Private Personel Use Only
w
w.jainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126