Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
॥ ५८ ॥
Jain Education In
यैर्दिलीपतिरार्हतः कृत इति ख्यातिः परा प्राप्यते । येभ्योऽयं च तपोगणो गुणिपदं प्राप्तः प्रतिष्ठां पराम् । येषां नाम जपन्ति योगिनिवहाः सर्वेष्टसंसिद्धये ॥ १४८१ ॥
शिष्यास्तेषां सदाचार्या, विजयसेननामकाः । द्योतन्ते द्युतिसंभारभास्करौपम्यभाजनम् ॥ १४८२ ॥ तद्राज्ये विजयिन्यनन्यमतयः श्रीवाचकाग्रेसरा ।
द्योतते भुवि धर्म्मसागर महोपाध्यायशुद्धा धिया । तेषां शिष्यकणेन पञ्चयुगषट्चन्द्राङ्किते वत्सरे १६४५ । वेलाकुलपुरे स्थितेन रचितो ग्रन्थोऽयमानन्दतः ॥ १४८३ ॥ कृता धर्म्मपरीक्षेयं, पण्डितैः पद्मसागरैः । वाच्यमाना बुधैर्जीयाद्यावद्गङ्गेन्दु भास्कराः ॥ १४८४ ॥ इति महामहोपाध्यायश्रीधर्म्मसागरगणि-पण्डितश्रीविमलसागरगणि-शिष्यपण्डितपद्मसागरगणि-विनिर्मितो धर्म्मपरीक्षाभिधो ग्रन्थः संपूर्णः ।
इति श्रेष्ठि देवचन्द्र लालभाई — जैन पुस्तकोद्धारे - ग्रन्थाङ्कः १५.
For Private & Personal Use Only
परीक्षा.
॥ ५८ ॥
jainelibrary.org

Page Navigation
1 ... 120 121 122 123 124 125 126