Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
यथायं वान्तमिथ्यात्वो, व्रताभरणभूषितः । इदानीं जायते भव्यस्तथा साधो ! विधीयताम् ॥ १३९८ ।। ततः साधुरभाषिष्ट, देवात्मगुरुसाक्षिकम् । सम्यक्त्वपूर्वकं भद्र ! गृहाण श्रावक ब्रतम् ॥ १३९९ ॥ साक्षीकृत्य व्रतग्राही, व्यभिचारं न गच्छति । व्यवहारीव येनेदं, तेन ग्राह्यं ससाक्षिकम् ॥ १४००॥ रोप्यमाणं न जीवेषु, सम्यक्त्वेन विना व्रतम् । सफलं जायते शस्यं, केदारेष्विव वारिणा ॥ १४०१॥ सम्यक्त्वसहिते जीवे, निश्चलीभवति व्रतम् । सगर्त्तापूरके देशे, देववेश्मेव दुर्धरम् ॥ १४०२॥ जीवाजीवादितत्त्वानां, भाषितानां जिनेश्वरैः । श्रद्धानं कथ्यते सद्भिः, सम्यक्त्वं व्रतरोपकम् ॥ १४०३॥ दोषैः शङ्कादिभिर्मुक्तं, संवेगाद्यैर्गुणैर्युतम् । दधतो दर्शनं पूतं, फलवज्जायते व्रतम् ॥ १४०४ ॥ पञ्चधाणुव्रतं तत्र, त्रेधाऽवाचि गुणव्रतम् । शिक्षाव्रतं चतुर्धेति, व्रतं द्वादशधा स्मृतम् ॥ १४०५॥ अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमसङ्गता। पञ्चधाणुव्रतं ज्ञेयं, देशतः कुर्वतः सतः ॥ १४०६॥ परिगृह्य व्रतं रक्षेन्निधाय हृदये सदा । मनीषितसुखाधायि, निधानमिव समनि ॥ १४०७॥ प्रमादतो व्रतं नष्टं, लभ्यते न पुनः शुचि । समर्थ चिन्तितं दातुं, दिव्यं रत्नमिवाम्बुधौ ॥ १४०८ ॥ द्विविधा देहिनः सन्ति, प्रसस्थावरभेदतः। रक्षणीयास्त्रसास्तत्र, गेहिना व्रतमिच्छता ॥ १४०९ ॥ असा द्वित्रिचतुष्पञ्चहृषीकाः सन्ति भेदतः । चतुर्विधाः परिज्ञाय, रक्षणीया हितैषिभिः ॥ १४१० ॥
Jain Education in
For Private & Personel Use Only
Bharw.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126