Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 113
________________ पाषण्डाः समये तुर्ये, बीजरूपेण ये स्थिताः। प्ररूढा(रुह्य) विस्तरं प्राप्ताः, कलिकालावनाविमे ॥ १३७२ ॥ विरागः केवलालोक-विलोकितजगत्रयः। परमेष्ठी जिनो देवः, सर्वगीर्वाणवन्दितः ॥ १३७३॥ यत्र निर्वाणसंसारी, निगद्यते सकारणौ । सर्वबाधकनिर्मुक्तावागमोऽसौ बुधैर्मतः ॥ १३७४ ॥ आर्जवं माईवं सत्यं, शौचं त्यागः क्षमा तपः । ब्रह्मचर्यमसङ्गत्वं, संयमो दशधा वृषः ॥ १३७५ ॥ सक्तवाह्यान्तरो ग्रन्थो, निष्क्रयो विजितेन्द्रियः। परीषहसहः साधुभवाम्भोनिधितारकः ॥ १३७६ ॥ निर्वाणनगरद्वारं, संसारदहनोदकम् । एतचतुष्टयं ज्ञेयं, सर्वदा सिद्धिहेतवे ॥ १३७७ ॥ सम्यक्त्वज्ञानचारित्रतपः सन्मुक्तिदायकम् । चतुष्टयमिदं हित्वा, नापरं मुक्तिकारणम् ॥ १३७८ ॥ समस्ता लब्धयो लब्धा, भ्रमता जन्मसागरे । न लब्धिश्चतुरङ्गस्य,मित्र! क्का(त्रैका)पि शरीरिणाम् ॥१३७९॥ देशो जातिः कुलं रूपं, पूर्णाक्षत्वमरोगता । जीवितं दुर्लभं जन्तोर्देशनाश्रवणं ग्रहः ॥ १३८० ॥ एषु सर्वेषु लब्धेषु, जन्मद्रुमकुठारिकाम् । लभते दुःखतो बोधि, सिद्धिसौधप्रवेशिकाम् ॥ १३८१ ॥ यच्छुभं दृश्यते वाक्यं, तजैन परदर्शने । मौक्तिकं हि यदन्यत्र, तदब्धौ जायतेऽखिलम् ॥ १३८२ ॥ जिनेन्द्रवचनं मुक्त्वा , नापरं पापनोदनम् । भिद्यते भास्करेणैव, दुर्भेद्यं शावरं तमः॥ १३८३॥ आदिभूतस्य धर्मस्य, जैनेन्द्रस्य महीयसः । अपरे नाशका धाः , शस्यस्य शलभा इव ॥ १३८४ ॥ ACCASEARSAGARMA Jain Education Intl For Private & Personel Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126