Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥४९॥
न विप्राविप्रयोरस्ति, सर्वदा शुद्धशीलता। कालेनानादिना गोत्रस्खलनं क न जायते ? ॥ १२५५॥
परीक्षा. संयमो नियमः शीलं, तपो दानं दया दमः । विद्यन्ते तात्त्विका यस्यां, सा जातिमहिता सताम् ॥१२५६॥ दृष्ट्वा योजनगन्धादिप्रसूतानां तपखिनाम् । व्यासादीनां महापूजां, तपसि क्रियतां मतिः॥ १२५७॥ शीलवन्तो गताः खर्ग, नीचजातिभवा अपि । कुलीना नरकं प्राप्ताः, शीलसंयमनाशिनः ॥ १२५८ ॥ गुणैः संपद्यते जातिगुणध्वंसे विपद्यते । यतस्ततो बुधैः कार्यो, गुणेष्वेवादरः परः॥ १२५९ ॥ जातिमात्रमदः कार्यो, न नीचत्वप्रवेशकः । उच्चत्वदायकः सद्भिः, कार्यः शीलसमादरः॥ १२६० ॥ मन्यन्ते स्नानतः शौचं, शीलसत्यादिभिर्विना । ये तेभ्यो न परे सन्ति, पापपादपवर्धकाः ॥ १२६१ ॥ शुक्रशोणितनिष्पन्नं, मलाहारविवर्धितम् । पयसा सा(शो)ध्यते गात्रमाश्चर्य किमतः परम् ? ॥ १२६२॥ मलो विशोध्यते वाह्यो, जलेनेति निगद्यताम् । पापं निहन्यते तेन, कस्येदं हृदि वर्ध(त)ते ? ॥ १२६३॥ मिथ्यात्वासंयम(मा)ज्ञानः, कल्मषं प्राणिनाऽर्जितम् । सम्यक्त्वसंयमज्ञानहन्यते नान्यथा स्फुटम् ॥१२६४॥ कषायैरर्जितं पापं, सलिलेन निवार्यते । एतजडात्मनो ब्रू(न्मनु)ते, नान्ये मीमांसका ध्रुवम् ॥ १२६५॥
Ix॥४९॥ यदि शोधयितुं शक्तं, शरीरमपि नाम्बुना । अन्तःस्थितं मनो दुष्ट, कथं तेन विशोध्यते ? ॥ १२६६ ॥ गर्भादिमृत्युपर्यन्तश्चतुर्भूतभवो भवी । नापरो विद्यते येषां, तैरात्मा वञ्चयते ध्रुवम् ॥ १२६७ ॥
4560
SPlainelibrary.org
Join Education in
For Private & Personal Use Only
--

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126