Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 110
________________ -4-NCREASE ला परीक्षा. ॥५२॥ ACROSECCAC आहारं क्रमतस्तुल्यो, बदरामलकाक्षकैः । परेषां दुर्लभोऽधृष्यः, सर्वेन्द्रियबलप्रदः ॥ १३३३ ॥ नास्ति स्वस्वामिसंबन्धो, नान्यगेहगमागमौ । न हीनो नाधिकस्तत्र, न व्रतं नापि संयमः ॥ १३३४ ॥ सप्तभिः सप्सकैस्तत्र, दिनानां जायतेऽङ्गिनाम् । सर्वभोगक्षमो देहो, नवयौवनभूषणः ॥ १३३५ ॥ नरस्त्रियोर्युगं तत्र, जायते सहभावतः । कान्तिद्योतितसर्वाशं(ग), ज्योत्स्ना चन्द्रमसोरिव ॥ १३३६ ॥ आर्यमाह्वयते नाथं, प्रेयसी प्रियभाषिणी । तत्रासौ प्रेयसीमार्या, चित्रचाटुक्रियोद्यतः ॥ १३३७ ॥ दशाङ्गो दीयते भोगस्तेषां कल्पमहीरहैः । दशाङ्गैर्निर्मलाकारैर्धम्मैरिव सविग्रहैः ॥ १३३८ ॥ मद्यतूर्यगृहज्योतिर्भूषाभोजनविग्रहाः । नगदीपवस्त्रपात्राङ्गा, दशधा परिकल्पिताः ॥ १३३९ ॥ कल्प(पल्य)स्य चाष्टमे भागे, सति शेपे व्यवस्थिते । तृतीयारे समुत्पन्नाश्चतुर्दश कुलङ्कराः ॥ १३४० ॥ प्रतिश्रुदादिमस्तत्र, द्वितीयः सन्मतिः स्मृतः । क्षेमङ्करधरौ प्राज्ञी, सीमङ्करधरौ ततः॥ १३४१ ॥ ततो विमलवाहोऽभूचक्षुष्मानष्टमस्ततः । यशखी नवमो जैनैरभिचन्द्रः परो मतः ॥ १३४२ ॥ चन्द्राभो मरुदेवोऽन्यः, प्रसेनोऽत्र त्रयोदश । नाभिराजो बुधैरन्त्यः, कुलकारी निवेदितः ॥ १३४३॥ एते बुद्धिधनाः सर्वे, दिव्यज्ञानविलोचनाः । लोकानां दर्शयामासुः, समस्तां भुवनस्थितिम् ॥ १३४४॥ मरुदेव्यां महादेव्यां, नाभिराजो जिनेश्वरम् । प्रभात इव पूर्वस्या, तिग्मरश्मिमजीजनत् ॥ १३४५ ॥ C ॥५२॥ Jain Education in AD For Private & Personel Use Only Iw.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126