Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 107
________________ ऊर्ध्वाधोद्वारनिर्यातो, भविष्यामि जुगुप्सितः । इति ज्ञात्वा विदार्याङ्ग, जनन्या यो विनिर्गतः ॥ १२९४ ॥ मांसस्य भक्षणे गृद्धो,दोषाभावं जगाद यः। बुद्धस्य तख मूढस्य,कीदृशी विद्यते क्रिया?(कृपा)॥१२९५॥युग्मम्॥ कायं कृमिकुलाकीर्ण, व्याघ्रभार्यानने कुभीः(धीः)। यो निचिक्षेप जानानः, संयमस्तस्य कीदृशः? ॥१२९६॥ सर्वशून्यत्वनैरात्म्यक्षणिकत्वानि भाषते । यः प्रत्यक्षविरुद्धानि, तस्य ज्ञानं कुतस्तनम् ? ॥ १२९७ ॥ कल्पिते सर्वशून्यत्वे, यत्र बुद्धो न विद्यते । वन्धमोक्षादितत्त्वानां, कुतस्तत्र व्यवस्थितिः ॥ १२९८ ॥ खर्गापवर्गसौख्यादिभागिनः स्फुटमात्मनः । अभावे सकलं वृत्तं, क्रियमाणमनर्थकम् ॥ १२९९ ॥ क्षणिके हन्तृहन्तव्यदातृदेयादयोऽखिलाः । भावा यत्र विरुध्यन्ते, तद्गृहन्ति न धीधनाः ॥ १३००॥ प्रमाणबाधितः पक्षः, सर्वो यस्येति सर्वथा । सार्वज्ञं विद्यते तस्य, न बुद्धस्य दुरात्मनः ॥ १३०१॥ वाणारसीनिवासस्य, ब्रह्मा पुत्रः प्रजापतेः । उपेन्द्रो वसुदेवस्य, सात्यकेर्योगिनो हरः॥ १३०२॥ सृष्टिस्थितिनिवासानां, कथ्यन्ते हेतवः कथम् । एते निसर्गसिद्धस्य, जगतो हतचेतनः ॥ १३०३॥ युग्मम्।। यदि सर्वविदामेषां, मूर्तिरेकास्ति तत्त्वतः । तदा ब्रह्ममुरारिभ्यां, लिङ्गान्तः किं न वीक्षितः ? ॥ १३०४ ॥ सर्वज्ञस्य विरागस्य, शुद्धस्य परमेष्ठिनः । किञ्चिज्ज्ञाः रागिणोऽशुद्धा, जायन्तेऽवयवाः कथम् ? ॥ १३०५॥ प्रलयस्थितिसर्गाणां, विधातुः पार्वतीपतेः । लिङ्गच्छेदकरः शाप-तापसैर्दीयते कथम् ? ॥ १३०६ ॥ Jain Education For Private & Personel Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126