Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
RECEMSCER-C
पारम्पर्येण स ज्ञेयो, नेदृशं सुन्दरं वचः। सर्वज्ञेन विना मूलं, पारम्पयं कुतस्तनम् ! ॥ १२४२॥ समस्तैरप्यसर्वहर्वेदो ज्ञातुं न शक्यते । सर्व विचक्षुषो मार्ग, कुतः पश्यन्ति काङ्कितम् ॥ १२४३॥ कालेनानादिना नष्टं, कः प्रकाशयते पुनः । असर्वज्ञेषु सर्वेषु, व्यवहारमिवादिमम् ॥ १२४४ ॥ नापौरुषेयता सार्था, सर्वत्रापि मता सताम् । पन्था हि जारचौराणां, मन्यते कैरकृत्रिमः १ ॥ १२४५ ॥ अथ पुम्भिः(अध्वर्युभिः)कृता यागे,हिंसा संसारकारिणी। पापर्धिकैरिवारण्ये, प्राणिपीडाकरी यतः॥१२४६।। हन्यमाना हठाजीवा, याज्ञिकैःखाविकैरिव । खग यान्तीति मे चित्रं, सङ्क्लेशव्याकुलीकृताः॥ १२४७॥ या धर्मनियमध्यानसङ्गतैः साध्यतेऽङ्गिभिः । कथं खगंगतिः साध्या, हन्यमानैरसौ हठात् ॥ १२४८॥ वैदिकानां वचो ग्राह्यं, न हिंसासाधु साधुभिः । खाटिकानां कुतो वाक्यं, धार्मिकैः क्रियते हदि ? ॥१२४९॥ न जातिमात्रतो धर्मो, लभ्यते देहधारिभिः। सत्यशौचतपःशीलध्यानखाध्यायवर्जितैः ॥ १२५०॥ आचारमात्रभेदेन, जातीनां भेदकल्पनम् । न जातिाह्मणीयाऽस्ति, नियता कापि तात्त्विकी ॥१२५१॥ ब्राह्मणक्षत्रियादीनां, चतुर्णामपि तत्त्वतः । एकैव मानुषीर्जातिराचारेण विभिद्यते ॥ १२५२ ॥ भेदे जायेत विप्रायां(णां), क्षत्रियो न कथञ्चन । शालिजाती मया दृष्टः, कोद्रवस्य न संभवः ॥ १२५३ ॥ ब्राह्मणोऽवाचि विप्रेण, पवित्राचारधारिणा । विप्रायां शुद्धशीलायां, जनितो नेदमुत्तरम् ॥ १२५४ ॥
-65-NC
R EACHES
Jain Education in
For Private & Personel Use Only
Kaw.jainelibrary.org

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126