Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 101
________________ Jain Education 1 सितेन करवालेन, रावणेन द्विधा कृतः । तथाऽङ्गदः कथं लग्नो, योज्यमानो हनूमता ॥ १२१६ ॥ आराध्य देवतां लब्ध्वा ततः पिण्डं मनीषितम् । दानवेन्द्रो ददौ देव्यास्तनयोत्पत्तिहेतवे ।। १२१७ ॥ द्विधाकृत्य तया दत्ते, सपत्न्या मोहतो दले । द्विधागर्भस्तयोर्देव्योर्भवति स्म द्वयोरपि ॥ १२१८ ॥ जातं खण्डद्वयं दृष्ट्वा, संपूर्ण समये सति । ताभ्यां नीत्वा बहिः क्षिप्तं, जरसा सन्धितं पुनः ॥ १२१९ ॥ तत्र जातो जरासन्धो, विनिर्जितनरामरः । सर्वकर्मक्षमः ख्यातो, महनीयपराक्रमः ॥ १२२० ॥ शकलद्वितयं लग्नं, योज्यमानं गतत्रणम् । सत्रणो न कथं मूर्धा, मदीयः कथ्यतां द्विजाः १ ॥ १२२१ ॥ जरासन्धाङ्गदौ यत्र, द्विधाकृतकलेवरौ । जीवितौ मिलितौ तत्र न किं मे मूर्धविग्रहौ ? ॥। १२२२ ॥ एकीकृत्य कथं स्कन्दः, षट्खण्डोऽपि विनिर्मितः ? । प्रतीयते न मे योगश्छिन्नयोर्मूर्धदेहयोः ॥ १२२३ ॥ अथ पड़दनो देवः, पोढाऽप्येकत्वमश्रुते । तदयुक्तं यतो नार्थी, देवः संपद्यते कुतः ? ॥ १२२४ ॥ निरस्ताशेषरक्तादिमलायां देवयोषिति । शिलायामिव गर्भस्य, सम्भवः कथ्यतां कथम् ? ॥। १२२५ ॥ द्विजैरुक्तमिदं सर्वे, सूनृतं भद्र ? भाषितम् । परं कथं फलैर्मूर्ध्ना, जग्धैः पूर्ण तवोदरम् ? || १२२६ ॥ ततोऽवदत् श्वेतभिक्षुर्यदि भुक्ते द्विजत्रजे । तृप्यन्ति पितरो नीताः, किं नाङ्गं मूर्ध्नि मे तदा ? | १२२७ ॥ निरुत्तरानथालोक्य, खेटपुत्रौ द्विजन्मनः । निर्गल काननं यातौ भूरिभूरुहभूषितम् ॥ १२२८ ॥ For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126