Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 74
________________ धर्म परीक्षा. अवादि वेधसोपेन्द्रः, किं शेषे ? कमलापते ! । उत्तम्भितोदरोऽत्यन्तनिश्चलीभूतविग्रहः ॥ ८६६ ॥ अभाषि विष्णुना स्रष्टा, सृष्टिमेकार्णवे तव । अहमालोक्य नश्यन्ती, कृतवानुदरान्तरे ॥ ८६७ ॥ शाखान्यातहरिचक्रे, वटवृक्षे महीयसि । पर्णे सुप्तोऽस्मि विस्तीर्णे, ततोऽत्राध्मातकुक्षिकः ॥ ८६८ ॥ पितामहस्ततोऽलापीच्छ्रीपते !ऽकारि शोभनम् । यदरक्षि त्वया सृष्टिव्रजन्ती विप्लवे क्षयम् ॥८६९॥ ममोत्सुकमिमां द्रष्टुं, श्रीपते ! वर्त्तते मनः । अपत्यविरहोऽत्यन्तं, सर्वेषामपि दुस्सहः ॥ ८७० ॥ उपेन्द्रेण ततोऽभाषि, प्रविश्य जठरं मम । आननेन निरीक्षख, त्वं किं दुःखायसे वृथा ? ॥ ८७१ ॥ तत्प्रविश्य ततो दृष्ट्वा, सृष्टिं स्रष्टाऽतुषत्तराम् । अपत्यदर्शने कस्य, न सन्तुष्यति मानसम्॥ ८७२॥ तत्र स्थित्वा चिरं वेधाः, सृष्टिं दृष्ट्वाऽखिलां निजाम् । नाभिपङ्कजनालेन, हरेर्निरगमत्ततः ॥ ८७३ ॥ दृष्ट्वा वृषणयालाग्रं, विलग्नं तत्र स स्थिरम् । निष्क्रष्टुं दुःशकं ज्ञात्वा, विगोपकविशङ्कितः॥ ८७४ ॥ तदेव कमलं कृत्वा, खस्यासनमधिष्ठितः। विश्वं व्याप्तवती माया, न देवैरपि मुच्यते ॥ ८७५ ॥ युग्मम् ॥ ततः पद्यासनो जातः, प्रसिद्धो भुवने विधिः। महद्भिः क्रियमाणो हि, प्रपञ्चोऽपि प्रसिद्धयति ॥८७६॥ ईदृशो वः पुराणार्थः, किं सत्यो ? वितथोऽथ किम् । ब्रत निर्मत्सरीभूय, सन्तो नासत्यवादिनः ॥ ८७७॥ अबोचन्नवनीदेवाः, ख्यातोयं स्फटमीशः। उदितो भास्करो भद्र! पिधातुं केन शक्यते ॥८७८॥ ॥ ३४ ॥ Jain Education a l For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126