Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तदानीं न कथं हस्ती, विवरेण कमण्डलो। निर्गच्छति द्विजा! त, त्यक्त्वा मत्सरमासा ॥८५३॥ भवतामागमः सत्यो, न पुनर्वचनं मम । पक्षपातं विहायैकं, परमत्र न कारणम् ॥ ८५४ ॥ भूमिदेवैस्ततोऽवाचि, कुअरः कुण्डिकोदरे । कथं माति? कथं भगं, न पात्रं हस्तिभारतः॥८५५॥ हस्तिनो निर्गते देहे, कुण्डिकाछिद्रतोऽखिले । विलग्य निबिडस्तत्र, पुच्छवालः कथं स्थितः ॥८५६॥ श्रद्दध्महे वचो नेदं, त्वदीयं भद्र! सर्वथा । नभश्चरस्ततोऽवादीत् , सत्यमेतदपि स्फुटम् ॥ ८५७ ॥ पीतमङ्गुष्ठमात्रेण, सर्वसागरजीवनम् । अगस्तिमुनिना विप्राः, श्रूयते भवदागमे ॥ ८५८॥ अगस्तिजठरे माति, सागरीयं पयोऽखिलम् । न कुण्डिकोदरे हस्ती, मया साधं कथं? द्विजाः!॥८५९ ॥ नष्टामेकार्णवे सृष्टिं, खकीयां कमलासनः । बभ्राम व्याकुलीभूय, सर्वत्रापि विमार्गयन् ॥ ८६०॥ उपविष्टस्तरोर्मूले, तेन सर्षपमात्रिकाम् । अगस्त्योऽदर्शि शाखायां, कुण्डिकां पाणिना वहन् ॥ ८६१॥ । अगस्तिमुनिना दृष्टः, सोऽभिवाद्येति भाषितः । बंभ्रमीषि विरञ्चे ! त्वं, क्वैवं व्याकुलमानसः ॥ ८६२ ॥ स शंसति स्म मे साधो!, सृष्टिः क्वापि पलायिता । गवेषयन्निमां मूढो, भ्रमामि ग्रहिलोपमः ॥ ८६३ ।। । अगस्त्येनोदितो धाता, कुण्डिका जठरे मम । तां प्रविश्य निरीक्षख, मा स्मान्यत्र गमो विधे ! ॥ ८६४ ॥ प्रविष्टोऽत्र ततः स्रष्टा, श्रीपति वटपादपे । पत्रे शयितमद्राक्षीदुच्छूनजठरान्तरम् ॥ ८६५॥
Jain Education
For Private Personel Use Only
W
wjainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126