Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 78
________________ धर्म परीक्षा. ॥३६॥ एते नष्टा यतो दोषा, भानोरिव तमश्चयाः। स स्वामी सर्वदेवाना, पापनिईलनक्षमः ॥ ९१८॥ ब्रह्मणो यजलस्यान्तर्वीज निक्षिस (क्षेप) माप्तवान् । बभूव बुद्रुदस्तस्मात्तस्साच जगदण्डकम् ॥ ९१९ ॥ तत्र द्वेधा कृते जाता, जगप्रयव्यवस्थितिः । यद्येवमागमे प्रोक्तं, तदा तत् क स्थितं जलम् १॥ ९२० ॥ निम्नगापर्वतक्षोणीवृक्षाद्युत्पत्तिकारणम् । समस्तकारणाभावे, लभ्यते क्व विहायसि ? ॥ ९२१ एकस्यापि शरीरस्य, कारणं यत्र दुर्लभम् । त्रिलोककारणं मूर्त, द्रव्यं तत्र क लभ्यते ॥ ९२२॥ कथं विधीयते सृष्टि-रशरीरेण वेधसा? । विधानेनाऽशरीरेण, शरीरं क्रियते कथम् ?॥९२३॥ विधाय भुवनं सच, खयं नाशयतो विधेः । लोकहत्या महापापा, भवन्ती केन वार्यते ? ॥ ९२४ ॥ कृतकृत्यस्य शुद्धस्य, नित्यस्य परमात्मनः। अमूर्तस्याखिलज्ञस्य, किं लोककरणे फलम् ? ॥९२५ ॥ विनाश्य करणीयस्य, क्रियते किं विनाशनम् । कृत्वा विनाशनीयस्य, जगतः करणेन किम् ? ॥९२६ ॥ पूर्वापरविरुद्धानि, पुराणान्यखिलानि यः। श्रद्धेयं तत् कथं विप्रा!, न्यायनिष्ठेर्मनीषिभिः! ॥ ९२७॥ इत्युक्त्वा खेचरः पृष्ट्वा, क्षितिदेवाननुत्तरान् । निर्गयोपवनं गत्वा, खमित्रं न्यगदीदिति ॥ ९२८ ॥ श्रुतो देवविशेषो यः, पुराणार्थश्च यस्त्वया ।न विचारयतां तत्र, घटते किञ्चन स्फुटम् ॥ ९२९ ॥ नारायणश्चतुर्बाहु-विरश्चिश्चतुराननः । त्रिनेत्रः पार्वतीनाथः, केनेदं प्रतिपद्यते ॥९३०॥ %D Jain Education For Private & Personel Use Only Wrow.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126