Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 79
________________ एकास्यो द्विभुजो यक्षः, सर्वो जगति दृश्यते । मिथ्यात्वाकलितैलोकै-रन्यथा परिकल्प्यते ॥ ९३१ ॥ अनादिनिधनो लोको, व्योमस्थोऽकृत्रिमः स्थिरः । नैतस्य विद्यते. कर्ता, गगनस्येव कश्चन ॥ ९३२॥ खकर्मप्रेरिताः सर्वे, पर्यटन्ति शरीरिणः । गतिचतुष्टये दुःख-सुखभाजः पृथक् पृथक् ॥ ९३३॥ घ्नन्ति ये विपदः खस्य, न विष्णुब्रह्मशम्भवः । परेषां सुखदुःखानि, कथं कुर्वन्ति ते पुनः? ॥ ९३४ ॥ न यः शमयते धाम, निजमग्निकरालितम् । सोऽन्यगेहशमे शक्त, इति कैः प्रतिपद्यते॥९३५॥ रागद्वेषमहामोह-मोहिताः सुखदानि ये । न विदन्ति वकृत्यानि, ते कथं मुक्तिदर्शिनः ॥ ९३६ ॥ कामभोगातुरैर्नीचे-रन्यथास्थं जगत्रयम् । अन्यथा कथितं श्वभ्रवासदुःखभयोज्झितैः ॥ ९३७ ॥ उन्मार्गेश्छादिते मुक्ति-मार्गे संसारगामिभिः । यः करोति विचारं न, स कथं शिवमश्नुते ? ॥ ९३८॥ छेदनस्तापनस्ताडनैः कनकं यथा। परीक्ष्यते तथा धर्म-स्तपःशीलदयायमैः॥ ९३९॥ देवं गुरुं च ये धर्म, परीक्ष्योपासते धिया। ते कर्मशृङ्खला यान्ति, भित्त्वा सद्यो महोदयम् ॥ ९४०॥ देवो देवेन धीमद्भिः, परीक्ष्यो गुरुणा गुरुः । धर्मो धर्मेण धर्मार्थ-साधकैनरपुङ्गवः ॥ ९४१॥ ध्वस्तका जगद्वेदी, देवो विश्वपतिर्मतः । गुरुः सङ्गपरित्यक्तो, धर्मो जीवदयामयः ॥ ९४२॥ इत्युक्त्वा खेचरो मित्रं, पुनः माह विशुद्धधीः । तवान्यदपि मित्राहं, दर्शयामि कुतूहलम् ॥ ९४३॥ Jain Education in For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126