Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 94
________________ धर्म परीक्षा. ॥४४॥ भ्रमन्तौ धरणीमावां, नगराकरमण्डिताम् । भवदीयमिदं स्थानमागच्छावो द्विजाऽऽकुलम् ॥ ११२५ ॥ शृगालस्तपकोत्क्षेपनयनाश्चर्यमीदृशम् । दृष्टं प्रत्यक्षमावाभ्या-मिदं वो विनिवेदितम् ॥ ११२६ ॥ इदं वचनमाकर्ण्य, क्षितिदेवा बभाषिरे । असत्यमीदृशं भद्र!, व्रतस्थो भाषसे कथम् ? ॥ ११२७ ॥ एकीकृत्य ध्रुवं स्रष्ट्रा, त्रैलोक्यासत्यवादिनः । कृतस्त्वमन्यथेदृक्षः, किमसत्यो न दृश्यते ? ॥ ११२८ ॥ इदं विप्रवचः श्रुत्वा, जगाद नृपनन्दनः । वितथानि पुराणेषु, नेशानि किमु द्विजाः ॥ ११२९ ॥ दोषं परस्य सर्वोऽपि, पश्यति खस्य नो पुनः । कलङ्क शशिनि नेत्रं, कजलं नात्मनः पुनः॥ ११३०॥ विप्रा बभापिरे भद्र, पुराणेषु यदीदृशम् । त्वयेक्षितं तदा बेहि, त्यजामोऽसत्यवाक्यतः ॥ ११३१॥ श्रुत्वेत्याख्यन्मनोवेगस्त्यक्ष्यथ ब्राह्मणा यदि । तदाऽसत्यं पुराणार्थ, ब्रवीम्यहमशेषतः ॥ ११३२ ॥ हत्वा त्रिशिरःखराद्यान् , वने रामः सलक्ष्मणः । यावदास्ते ससीताकस्तावल्लङ्केश आगतः ॥ ११३३ ॥ स प्रदर्य वर्णमृगं, छलात् सीतामपाहरत् । हत्वा शकुन्तं तद्रक्षोद्यतं रामभ्रमप्रदम् ॥ ११३४ ॥ सुग्रीवादिकपिन्यूहैर्वृतो रामोऽपि शुद्धये । आदिदेश हनूमन्तं, प्रियायाः को न शुद्धिकृत् ॥ ११३५ ॥ सीताशुद्धिकरे तस्मिन्नायाति लक्ष्मणोऽग्रजः । वानरैर्बन्धयामास, सेतुमम्भोधिजीवने ॥ ११३६ ॥ एकैको वानरः पञ्च, जगामाथ धराधरान् । गृहीत्वा हेलयाऽऽकाशे, कुर्वन् क्रीडामनेकधा ॥ ११३७॥ ४४॥ Jain Education in For Private & Personel Use Only Mr.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126