Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
॥ ४५ ॥
Jain Education Inte
सर्ववेदी कथं दत्ते, शङ्करो वरमीदृशम् ? । देवानामपि दुर्गारो, भुवनोपद्रवो यतः ॥ ११५१ ॥ नार्थः परपुराणेषु, चिन्त्यमानेषु दृश्यते । नवनीतं कदा तोये, मध्यमाने हि लभ्यते ? ॥ ११५२ ॥ शाखामृगा भवन्त्येते, न सुग्रीवपुरस्सराः । न लोककल्पिता मित्र !, राक्षसा रावणादयः ॥ ११५३ ॥ विद्याविनयसंपन्ना, जिनधर्म्मपरायणाः । शुचयो मानवाः सर्वे, सदाचारमहौजसः ॥ ११५४ ॥ ततः शाखामृगाः प्रोक्ता, यतः शाखामृगध्वजाः । सिद्धानेकमहाविद्या, राक्षसा राक्षसध्वजाः ॥ ११५५ ॥ गौतमेन यथा प्रोक्ताः, श्रेणिकाय महीभुजे । श्रद्धातव्यास्तथा भव्यैः, शशाङ्कोज्ज्वलदृष्टिभिः ॥ ११५६ ॥ परकीयं परं साधो !, पुराणं दर्शयामि ते । इत्युक्त्वा वेतभिक्षुत्वं जग्राहासौ समित्रकः ॥ ११५७ ॥ एप द्वारेण षष्ठेन, गत्वा पुष्पपुरं ततः । आस्फाल्य सहसा भेरीमारूढः कनकासने ॥ ११५८ ॥ आगत्य ब्राह्मणैः पृष्टः, किं वेत्सि ? को गुरुस्तव ? । कर्तुं शक्नोषि किं वादं ? सौष्ठवं दृश्यते परम् ॥ ११५९ ॥ तेनोक्तं वेद्मि नो किञ्चिद्विद्यते न गुरुर्मम । वादनामापि नो वेद्मि, वादशक्तिः कुतस्तनी ? ॥ ११६० ॥ पूर्वकं दृष्ट्वा निविष्टोऽष्टापदासनम् । प्रताढ्य महतीं भेरीं, महाशब्ददिदृक्षया ॥ ११६१ ॥ आभीरतनय मूर्खो, सर्वशास्त्रवहिष्कृतौ । पर्यटावो महीं भीत्या गृहीत्वाऽऽवां खयं तपः ॥ १९६२ ॥ asभाषन्त कुतो भीया, युवाभ्यां स्वीकृतं तपः । । उपरोधेन जल्प त्वमस्माकं कौतुकं परम् ॥ १९६३ ॥
For Private & Personal Use Only
परीक्षा
॥ ४५ ॥
jainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126