Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 95
________________ रामायणाभिधे शास्त्रे, वाल्मीकिमुनिना कृते । किं भो दाशरथेवृत्तं, किमित्थं कथ्यते न वा॥११३८॥ तेऽवोचन्नीदृशं सत्यं, केनेदं क्रियतेऽन्यथा । प्रभातं छाद्यते जातु, न केनापि हि पाणिना ॥ ११३९॥ ततो रक्तपटोऽलापीघद्यको वानरो द्विजाः!। आदाय पर्वतान् पञ्च, गगने याति लीलया ॥११४०॥ शृगालौ तौ तदा स्तूपमेकमादाय मांसली । ब्रजन्तौ नभसि क्षिप्रं, वार्येते केन कथ्यताम् ॥ ११४१॥ भवदीयमिदं सत्यं, मदीयं नात्र दृश्यते । विचारशून्यतां हित्वा, कारणं न परं मया ॥ ११४२॥ युष्माकमीदृशे शास्त्रे, देवधविपीदृशौ । कारणे कश्मले कार्य, निर्मलं जायते कुतः? ॥ ११४३॥ नास्माकं युज्यते मध्ये, मिथ्याज्ञानवृतात्मनाम् । ईदृशानामवस्थातुमित्युक्त्वा निर्ययौ ततः ॥ ११४४ ॥ मुक्त्वा रक्तपटाकारं, मित्रमूचे मनोजवः। सर्वासंभावनीयाथै, परशास्त्रं श्रुतं त्वया ॥ ११४५॥ एतदुक्तमनुष्ठानं, कुर्वाणो नाश्नुते फलम् । सिकतापीलने तैलं, कदा केनोपलभ्यते ? ॥ ११४६ ॥ वानरै राक्षसा हन्तुं, शक्यन्ते न कथञ्चन । क्व महाष्टगुणा देवाः? व तियेचो विचेतसः? ॥११४७॥ उत्क्षिप्यन्ते कथं शैला? गरीयांसः प्लवङ्गमैः । कथं तिष्ठन्त्यकूपारेऽगाधनिर्मुक्तपाथसि ॥११४८॥ वरप्रसादतो जातो, यद्यवध्यो दिवौकसाम् । तदाऽसौ मानवीभूय, हन्यते किं नु रावणः ॥ ११४९॥ अमरा वानरीभूय, निजघ्न राक्षसाधिपम् । नैषापि युज्यते भाषा, नेप्सिता लभ्यते गतिः॥ ११५०॥ 1645625 en Education in For Private Personal Use Only Y w.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126