Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 81
________________ Jain Education Int कर ******* पातयित्वा वधूं नष्ट, भर्त्ता पश्यत पश्यत । लोकैरित्युदिते क्वापि, लज्जमानो वरो गतः ॥ ९५७ ॥ सार्धमा ततो भूते, गर्भः स्पष्टत्वमागतः । उदरेण समं तस्या, नवमासैर्न्यवर्धत ॥ ९५८ ॥ मात्रा पृष्टा ततः पुत्रि !, केनेदमुदरीकृतम् । साऽऽचचक्षे न जानामि, वरांसस्पर्शतः परम् ॥ ९५९ ॥ आगतास्तापसा गेहूं, भोजयित्वा विधानतः । मातामहेन मे पृष्टाः, क्व यूयं यातुमुद्यताः ? ॥ ९६० ॥ एतैर्निवेदितं तस्य भो दुर्भिक्षं भविष्यति । अत्र द्वादश वर्षाणि, सुभिक्षे प्रस्थिता वयम् ॥ ९६९ ॥ त्वमप्येहि सहास्माभिर्मृथा मात्र बुभुक्षया । कञ्चित् कुरूपकारं वा, प्रणिगद्येति ते ययुः ॥ ९६२ ॥ मया श्रुत्वा वचस्तेषां मातृगर्भनिवासिना । विचिन्तितमिदं चित्ते, क्षुधाचकित चेतसा ॥ ९६३ ॥ संपत्स्यते ऽत्र दुर्भिक्षं, वर्षद्वादशकं यदि । किं क्षुधा म्रियमाणोऽहं करिष्ये निर्गतस्तदा ? ॥ ९६४ ॥ चिन्तयित्वेति वर्षाणि, गर्भेऽहं द्वादश स्थितः । अशनाय भयत्रस्तः क्व देही नावतिष्ठते ? ॥ ९६५ ॥ आजग्मुस्तापसा भूय - स्ते गर्भमधितस्थुषि । मयि मातामहावासं, दुष्कालस्य व्यतिक्रमे ॥ ९६६ ॥ प्रणम्य तेऽथ संपृष्टा, मत्तातेनाचचक्षिरे । सुभिक्षमधुना जातं, प्रस्थिता विषयं निजम् ॥ ९६७ ॥ मयि श्रुत्वा वचस्तेषां गर्भतो निर्यियासति । अजनिष्ट सवित्री मे, वेदनाऽऽक्रान्तविग्रहा ॥ ९६८ ॥ कन्थां क्षित्वा पुरयुल्याः, पतिताया विचेतसः । निर्गत्योदरतो मातुर्निष्पतामि स्म भस्मनि ॥ ९६९ ॥ For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126