Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 84
________________ धर्म परीक्षा. ततः स्वपरशास्त्रज्ञो, व्याचष्टे गगनायनः । यद्येवं श्रूयता विप्राः!, स्पष्टयामि मनोगतम् ॥ ९९६ ॥ एकत्र सुप्तयोर्नार्यो-भगीरथ्याख्ययोर्द्वयोः ॥ संपन्नगर्भयोः पुत्रः, ख्यातोऽजनि भगीरथिः॥ ९९७ ॥ यदि स्त्रीस्पर्शमात्रेण, गर्भः संभवति स्त्रियाः। मातुर्मे न कथं जातः, पुरुषस्पर्शतस्तदा ? ॥९९८ ॥ धृतराष्ट्राय गान्धारी, द्विमासे किल दास्यते । तावद्रजखला जाता, पूर्व सार्म प्र(सा मन्त्र)दानतः ॥ ९९९ ॥ चतुर्थे वासरे स्नात्वा, फनसालिङ्गने कृते । वर्धयन्नुदरं तस्या, गर्भोऽजनि महाभरः ॥ १०.०॥ धृतराष्ट्राय सा दत्ता, पित्रा गर्भावलोकनैः । लोकापवादनोदाय, सर्वोऽपि यतते जनः ॥ १००१॥ यदूढया तया जातं, फनसस्य फलं परम् । बभूव जठरे तस्याः, पुत्राणां शतमूर्जितम् ॥ १००२॥ खेटः प्राह किमीदृक्षः, पुराणार्थोऽस्ति वा नवा? । ते प्राहुनितरामस्ति, को भद्रेमं निषधति? ॥१०.३॥ फनसालिङ्गने पुत्राः, सन्तीत्यवितथं यदि । तदा नृस्पर्शतः पुत्रप्रसूतिर्वितथा कथम् ? ॥ १००४ ॥ श्रुत्वेति वचनं तस्य, भाषितं द्विजपुङ्गवैः। त्वं भर्तृस्पर्शतो जातो, भद्र ! सत्यमिदं वचः॥१००५॥ तापसीयं वचः श्रुत्वा, वर्षद्वादशकं स्थितः । जनन्या जठरे नेदं, प्रतिपद्यामहे परम् ॥ १००६ ॥ जगाद खेचरः पूर्व, सुभद्राया मुरद्विषा । चक्रव्यूहप्रपञ्चस्य, व्यधीयत निवेदनम् ॥ १००७॥ तदश्रावि कथं मातुर्गर्भस्थेनाभिमन्युना? । कथं मया न भूदेवास्तापसानां वचः पुनः? ॥ १००८ ॥ ॥३९॥ Jain Education Interational For Private & Personel Use Only Ww.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126