Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Int
व्यासस्य भूभृतः पुत्रास्त्रयो जाता गुणालयाः । धृतराष्ट्रोऽपरः पाण्डुर्विदुरश्वति विश्रुताः ॥ १०६० ॥ एकदोपवने पाण्डू, रममाणो मनोरमे । निरैक्षत लतागेहे, खचरीं काममुद्रिकाम् ॥ १०६१ ॥ यावत्तिष्ठति तत्रासौ, कृत्वा मुद्रां कराङ्गुलौ । अगाचित्राङ्गदस्तावत्तस्याः खेटो गवेषकः ॥ १०६२ ॥ तस्य सा पाण्डुना दत्ता, निःस्पृहीभूतचेतसा । परद्रव्ये महीयांसः, सर्वत्रापि पराङ्मुखाः ॥ १०६३ ॥ सविलोक्य विलोभत्वं, तममन्यत वान्धवम् । अन्यवित्तस्पृहाशून्या, जायन्ते जगतो मताः ॥ १०६४ ॥ तमाचष्ट ततः खेटः, साधो ! त्वं मे सुबान्धवः । योऽन्यदीयं सदा द्रव्यं, पाषाणमिव पश्यति ।। १०६५ ॥ विषण्णो दृश्यसे किं त्वं?, बन्धो ! सूचय कारणम् । न गोप्यं क्रियते किञ्चित्, सुहृदो हि पटीयसा ॥ १०६६॥ अभाषिष्ट ततः पाण्डुः, साधो ! सूर्यपुरे नृपः । विद्यन्तेऽन्धकवृष्ण्याख्यस्त्रिदिवे मघवानिव ॥ १०६७ ॥ तस्यास्ति सुन्दरा कन्या, कुन्ती मकरकेतुना । ऊर्ध्वकृतपताकेव, त्रिलोकजयिना सता ॥ १०६८ ॥ सा तेन भूभृता पूर्व, दत्ता मन्मथवर्धिनी । इदानीं न पुनर्दत्ते, विलोक्य मम रोगिताम् ॥ १०६९ ॥ अनेन हेतुना बन्धो!, विषादो मानसेऽजनि । कुठार इव काष्ठानां, मर्मणां मर्मकर्त्तकः ॥ १०७० ॥ चित्राङ्गदस्ततोऽवोचत् साधो ! मुञ्च विषण्णताम् । नाशयामि तवोद्वेगं कुरुष्व मम भाषितम् ॥ १०७१ ॥ गृहाण त्वमिमां मित्र !, मदीयां काममुद्रिकाम् । कामरूपधरो भूत्वा तां भजख मनः प्रियाम् ॥ १०७२ ॥
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126