Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
निर्धातुकेन देवेन, न ना- जन्यते नरः । पाषाणेन कदा धात्र्यां, जन्यन्ते सस्मजातयः ॥ १०८६ ॥ वितीर्णा पाण्डवे कुन्ती, विज्ञायान्धकवृष्णिना। गान्धारी धृतराष्ट्राय, दोषं प्रच्छाद्य धीमता ॥ १०८७ ॥ इत्यन्यथा पुराणार्थो, व्यासेन कथितोऽन्यथा। रागद्वेषग्रहग्रस्ता, न हि विभ्यन्ति पापतः॥ १०८८ ॥ युक्तितो घटते यन्न, तद्भवन्ति न धार्मिमकाः। युक्तिहीनानि वाक्यानि, भाषन्ते पापिनः परम् ॥१०८९॥ व्यासो योजनगन्धायाः, पुत्रः स ह्यपरो मतः। धन्याया राजकन्यायाः, सत्यवत्याः पुनः परः॥ १०९०॥ परः पारासरो राजा, तापसोऽसौ पुनः परः । एकतां कुर्वते लोकास्तयोर्नामविमोहिताः ॥१०९१॥ दुर्योधनादयः पुत्रा, गान्धार्या धृतराष्ट्रजाः । कुन्तीमायोः सुताः पञ्च, पाण्डवाः प्रथिता भुवि ॥ १०९२ ॥ गान्धारीतनयाः सर्वे, कर्णेन सहिता नृपम् । जरासन्धं व्यषेवन्त, पाण्डवाः केशवं पुनः॥ १०९३॥ जरासन्धं रणे हत्वा, वासुदेवो महाबलः । बभूव धरणीपृष्ठे, समस्ते धरणीपतिः॥ १०९४ ॥ कुन्तीशरीरजाः कृत्वा, तपो जग्मुः शिवास्पदम् । मद्रीशरीरजौ भव्यौ, सर्वार्थसिद्धिमीयतुः ॥ १०९५ ॥ ईदृशोऽयं पुराणार्थो, व्यासेन कथितोऽन्यथा। मिथ्यात्वाकुलचित्तानां, तथ्या भाषा कुतस्तनी? ॥१०९६ ॥ अप्रसिद्धिकरी दृष्ट्वा, पूर्वापरविरुद्धताम् । भारते निर्मिते व्यासः, प्रदध्याविति मानसे ॥ १०९७ ॥ निरर्थकं कृतं कार्य, यदि लोके प्रसिद्ध्यति । असंबद्धविरुद्धार्थ, तदा शास्त्रमपि स्फुटम् ॥ १०९८ ॥
Jain Education Intel
For Private & Personel Use Only
W
w.jainelibrary.org

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126