Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 88
________________ धर्म परीक्षा. ॥४१॥ अन्तर्वनी कथं नारी, नारीस्पर्शन जायते । गोसङ्गेन न गौर्दृष्टा, क्वापि गर्भवती मया ॥ १०४७॥ मण्डूकी मानुषीं सूते, केनेदं प्रतिपद्यते । न शालितो मया दृष्टा, जायमाना हि कोद्रवाः ॥ १०४८॥ शुक्रभक्षणमात्रेण, यद्यपत्यं प्रजायते । किं कृत्यं धवसङ्गेन, तदापत्याय योषिताम् ? ॥१०४९॥ रेतःस्पर्शनमात्रेण, जायन्ते यदि सूनवः । बीजसङ्गममात्रेण, दत्ते सस्यं तदा धरा ॥ १०५० ॥ आघाते कमले गर्भः, शुक्राक्ते यदि जायते । भक्तमिश्रे तदा पात्रे, तृप्तिः केन निवार्यते ॥ १०५१ ॥ कथं विज्ञाय मण्डूकी, कन्यां धत्तेऽजिनीदले ? । भेकानामीदृशं ज्ञानं, कदा केनोपलभ्यते ? ॥ १०५२ ॥ रविधर्मानिलेन्द्राणां, भवेयुः सङ्गतः सुताः । कुन्त्याः सत्या विदग्धस्य, कस्येदं हृदि तिष्ठति ? ॥ १०५३॥ देवानां यदि नारीभिः, सङ्गमो जायते सह । देवीभिः सह मानां, न तदा दृश्यते कथम् ? ॥ १०५४॥ सर्वाशुचिमये देहे, मानुषे कश्मले कथम् । निर्धातुविग्रहा देवा, रमन्ते मलवर्जिताः ॥ १०५५॥ अविचारणरम्याणि, परशास्त्राणि कोविदैः । यथा यथा विचार्यन्ते, विशीर्यन्ते तथा तथा ॥ १०५६ ॥ देवा(वाँ)स्तपोधनान् मुक्त्वा, कन्याः कुर्वन्ति योषितः । महाप्रभावसंपन्ना, नेदं श्रद्दधते पुनः ॥ १०५७ ॥ ये पारदारिकीभूय, सेवन्ते परयोषितः । प्रभावो जायते तेषा, विटानां कथ्यते कथम् ? ॥ १०५८ ॥ किं मित्रासत्प्रलापेन, कृतेनानेन वच्मि ते । उत्पत्तिं कर्णराजस्य, जिनशासनशंसिताम् ॥ १०५९ ॥ ॥४१॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126