Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 86
________________ पराक्षा. ॥४०॥ परिणीताऽभवत्कन्या, कथं ते जननी पुनः? । सुदुर्घटमिदं ब्रूहि, सन्देहध्वान्तविच्छिदे ॥ १०२१॥ नभश्चरोऽवदद्वच्मि, श्रूयतामवधानतः । पारासरोजनिष्टात्र, तापसस्तापसार्चितः ॥ १०२२ ॥ असावुत्तरितुं नावा, कैवर्त्या वाह्यमानया। प्रविष्टः कन्यथा गङ्गा, नवयौवनदेहया ॥ १०२३॥ तामेष भोक्तुमारेभे, दृष्ट्वा तारुण्यशालिनीम् । पुष्पायुधशरैर्भिन्नः, स्थानास्थाने न पश्यति ॥१०२४ ॥ चकमे सापि तं वाला, शापदानबिभीलुका । अकृत्यकरणेनापि, सर्वो रक्षति जीवितम् ॥ १०२५ ॥ तपःप्रभावतोऽकारि, तेन तत्र तमखिनी । सामग्रीतो विना कार्य, किञ्चनापि न सिध्यति ॥ १०२६ ॥ सुरतानन्तरं जात-स्तयोासः शरीरजः। याचमानो ममादेशं, देहि तातेति भाक्तिकः ॥ १०२७॥ अत्रैव वत्स ! तिष्ठ त्वं, कुर्वाणः पावनं तपः । पारासरो ददौ तस्मै, नियोगमिति तुष्टधीः ॥ १०२८ ॥ भूयो योजनगन्धाख्यां, सौगन्ध्या व्याप्तदिग्मुखाम् । आगात् पारासरः कृत्वा, कुमारी योग्यमाश्रमम्॥१०२९॥ तापसःपितुरादेशा-जननानन्तरं कथम् । व्यासो मातुरहं नास्मि, कथमेतद्विचार्यताम् ? ॥ १०३०॥ धीवरी जायते कन्या, व्यासेऽपि तनये सति । मयि माता न मेऽत्रास्ति, किं परं पक्षपाततः? ॥ १०३१ ॥ अर्कसङ्गात् सुते जाते, कन्या भूयोऽभवद्यथा । कुन्ती तथैव मे माता, पुत्रे मय्यपि किं न सा! ॥ १०३२॥ ऊद्दालकर्षिर्गङ्गायां, क्षरितं वीर्यमात्मनः । गृहीत्वा पद्मपत्रस्थं, चकार जनविश्रुतः ॥ १०३३॥ ॥४०॥ Jain Education in For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126