Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 82
________________ - - धर्म परीक्षा. ॥३८॥ उत्थाय पात्रमादाय, जननी भणिता मया। देहि मे भोजनं मातः!, क्षुधितो नितरामहम् ॥ ९७० ॥ पिता मे तापसान् प्राह, दृष्टः कोऽपि तपोधनाः!। युष्माभिर्जातमात्रोऽपि, याचमानोऽत्र भोजनम् ॥९७१॥ तैरुक्तमयमुत्पातो, गेहानिर्धाट्यतां स्फुटम् । भविष्यत्यन्यथा साधो!, तव विघ्नपरम्परा ॥ ९७२ ॥ ततोऽहं गदितो मात्रा, याहि रे यममन्दिरम् । तापको मम दुर्जात!, स ते दास्यति भोजनम् ॥ ९७३॥ मयाऽवाचि ततो मातरादेशो मम दीयताम् । तया न्यगदि याहि त्वं, निर्गत्य मम गेहतः ॥ ९७४ ॥ ततोऽहं भस्मना देहमवगुण्ड्य विनिर्गतः । गतो मुण्डशिरो भूत्वा, तापसस्तापसैः सह ॥ ९७५ ॥ स्थितोऽहं तापसस्थाने, कुर्वाणो दुष्करं तपः। न श्रेयस्कार्यमारभ्य, प्रमाद्यन्ति हि पण्डिताः ॥ ९७६ ॥ मया गतवता स्मृत्वा, साकेतपुरमेकदा । माता विवाह्यमाना खा, वरेणान्येन वीक्षिता ॥ ९७७ ॥ विनिवेद्य वसंवन्धं, मया पृष्टाः तपोधनाः। आचक्षते न दोषोऽस्ति, परेणास्या विवाहने ॥९७८॥ द्रौपद्याः पश्च भारः, कथ्यन्ते यत्र पाण्डवाः । जनन्यास्तव को दोषस्तत्र भर्तृवये सति ? ॥ ९७९ ॥ एकदा परिणीतापि, विपन्ने दैवयोगतः । भर्तयक्षतयोनिः स्त्री, पुनः संस्कारमर्हति ॥९८० ॥ प्रतीक्षेताष्ट वर्षाणि, प्रसूता वनिता सती। अप्रसूता तु चत्वारि, प्रोषिते सति भर्तरि ॥ ९८१ ॥ पञ्चखेषु गृहीतेषु, कारणे सति भर्तृषु । न दोषो विद्यते स्त्रीणां, व्यासादीनामिदं वचः ॥९८२ ॥ CCCCCCCCREACOCALAR ॥३८॥ Jain Education Se For Private & Personel Use Only G aw.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126