Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 80
________________ परीक्षा निगोति मुमोचर्षि-रूपं खेचरनन्दनः। पुरं विवेश मित्रेण, समं तापसवेषभाक् ॥ ९४४॥ सघण्टा भेरिमाताज्य, निविष्टो हेमविष्टरे । आगत्य ब्राह्मणाः प्राहुरागतस्तापसः कुतः ॥ ९४५॥ किं त्वं व्याकरणं वेत्सि?, किंवा तर्क सविस्तरम् १ । करोषि ब्राह्मणैः साध, किं वादं शास्त्रपारगैः ॥९४६॥ तेनोक्तमहमायातो, भूदेवा ! ग्रामतोऽमुतः। वेनि व्याकरणं तर्क, वादं वापि न कञ्चन ॥९४७॥ विप्राः प्राहुर्वद क्रीडां, विमुच्य त्वं यथोचितम् । स्वरूपपृच्छिभिः सार्ध, क्रीडा कर्तुं न युज्यते ॥९४८॥ खेचरेण ततोऽवाचि, तापसाकारधारिणा । कथयामि निजं वृत्तं, युष्मत्तोऽहं परं चके ॥ ९४९ ॥ युक्तेऽपि भाषिते विप्राः!, कुर्वते निर्विचारकाः । आरोप्यायुक्ततां दुष्टा, रभसोपद्रवं परम् ॥ ९५०॥ सूत्रकण्ठास्ततोऽवोचन , वद भद्र ! यथोचितम् । सर्वे विचारका पिना, युक्तपक्षानुरागिणः ॥ ९५१ ॥ तदीयं वचनं श्रुत्वा, जगाद खगनन्दनः। निगदामि तदाभीष्टं, यदि यूयं विचारकाः॥९५२ ॥ बृहत्कुमारिका माता, साकेतनगरे मम । दत्ता खकीयतातेन, मदीयजनकाय सा ॥ ९५३ ॥ श्रुत्वा तूर्यरवं हस्ती, कृतान्त इव दारुणः । मत्तो भङ्क्त्वाऽऽगतः स्तम्भ, विवाहसमये तयोः ॥९५४ ॥ ततः पलायितो लोकः, समस्तोऽपि विदूरतः । विवाहकरणं मुक्त्वा, स्थिरत्वं क्व महाभये? ॥९५५ ॥ वधूः पलायमानेन, वरेण व्याकुलात्मना । खांसस्पर्शनतश्चेष्टा, पातिता वसुधातले ॥९५६ ॥ Jain Education Intemanda For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126