Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
परे सन्ति परत्रापि. साधवोऽध्यापकाः स्फुटम् । चिन्तयित्वेत्यहं नंष्ट्वा, ततो यातः पुरान्तरम् ॥ ८२७ ॥ मदासिक्तमहीपीठो, गजः सम्मुखमागतः। प्रक्षरनिर्भरः शैल, इव दृष्टो मया पुरे (रः)॥ ८२८॥ हस्तं प्रसार्य मां दृष्ट्वा, धावितः स मतङ्गजः। नियन्तृयन्त्रणोल्लवी, समवर्तीव मूर्तिमान् ॥ ८२९ ॥ कमण्डलुं प्रविष्टोऽह-मपश्यन् शरणं परम् । अपारयन्नहं कर्तुमन्यत्राशु पलायनम् ॥ ८३०॥ बेगेनागत्य तत्रैव, प्रविष्टोऽयं मतङ्गजः । विरुद्धमानसः क्रुद्ध, उत्पाटयितुमुद्यतः॥ ८३१॥ पाटनासक्तचित्तं तं, विलोक्याहं विनिर्गतः। कमण्डलूप्रवक्त्रेण, जीवितोद्यमवान्न कः ॥ ८३२॥ तस्यैव वदनेनाशु, निर्गतोऽयं मतङ्गजः । पुच्छं तत्र विलग्नं तु, स व्यपासितुमक्षमः॥ ८३३ ॥ पुच्छाकर्षणजक्लेशाद्विह्वलः सोऽपतद्भुवि । तथास्थितं तं मुक्त्वाऽहं, गतः खस्थमनाः पुरे ॥ ८३४ ॥ जिनेन्द्रमन्दिरं तत्र, दृष्ट्वा नत्वा जिनेश्वरम् । दुःखगर्भजवैराग्यान्मुनिमार्गमुपात्तवान् ॥ ८३५ ॥ विहरनगरपामाऽऽकी भूमिमिहागतः। नैकत्र यतयो यस्मात्तिष्ठन्त्यप्रतिबन्धिनः ॥ ८३६ ॥ इदं सङ्केपतः प्रोक्तं, मया वश्चरितं निजम् । एवं तदुक्तमाकर्ण्य, प्राहुर्हास्ययुजो द्विजाः ॥ ८३७ ॥ प्रवेशं निर्गमं वा कः, श्रद्धत्तेऽत्र कमण्डलौ ? । हस्तिनः क्लिष्टपुच्छस्य, स्थातां तत्र कथं हि तौ ? ॥८३८॥ अग्नौ नीरं कजं जातु, शिलायां तिमिरं रवी । जायते न पुनर्मूर्ख !, वचसः सत्यता तव ॥ ८३९ ॥
Jain Education
n
a
For Private & Personel Use Only
w.jainelibrary.org

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126