Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मनोवेगस्ततोऽवादीत्, कर्णिकाविवरे विधेः केशो लगति चेत् किं न, हस्तिपुच्छं कमण्डलो?॥८७९॥ भज्यते नातसीस्तम्भः, स विश्वस्य कमण्डलो। भारेणकेभयुक्तस्य, भिण्डो मे भज्यते कथम् ॥८८०॥ विश्यं सर्षपमात्रेऽपि, सर्व माति कमण्डलौ । न सिन्धुरो मया साध, कथं विधा महीयसि ॥८८१॥ कस्थितः खोदरान्तस्थे, विष्टपत्रितये हरिः। कागस्त्यः सोऽतसीस्तम्भः?,क भ्रान्तश्च प्रजापतिः ॥८॥ क्षितौ व्यवस्थितो भिण्डस्तत्र सेभः कमण्डलुः । चित्रं न घटते पक्षो, मम यो घटते पुनः॥ ८८३ ॥ सर्वज्ञो व्यापको ब्रह्मा, यो जानाति चराचरम् । सृष्टिस्थानं कथं नासौ, बुध्यते ? येन मार्गति ॥ ८८४ ॥ आक्रष्टुं यः क्षमः क्षिप्रं, नरकादपि देहिनः । असौ वृषणवालाग्रं, न कथं कमलासनः? ॥ ८८५॥ यो ज्ञात्वा प्रलये धात्री, त्रायते सकलां हरिः। सीतापहरणं नासौ, कथं घेत्तिन रक्षति ?॥८८६ ॥ यो मोहयति निःशेष-मसाविन्द्रजिता कथम् । विमोब श्रीपतिर्बद्धो, नागपाशैः सलक्ष्मणः ॥ ८८७ ॥ यस्य स्मरणमात्रेण, नश्यन्ति विपदोऽखिलाः । प्राप्तः सीतावियोगाद्याः, स कथं विपदः खयम् ? ॥८८८॥ निजानि दश जन्मावि, नारदाय जगाद यः। स पृच्छति कथं कान्तां, वकीयां फणिनां पतिम् ? ॥८८९॥ "राजीवपाणिपादास्या, रूपलावण्यवाहिनी। फणिराज त्वया दृष्टा, भामिनी गुणशालिनी" ॥८९०॥ अनादिकालमिथ्यात्व-वातेनाप्रगुणीकृतान् । कः क्षमः प्रगुणीकर्तु, लोकान् जन्मशतैरपि ॥ ८९१॥
Jain Education
For Private & Personel Use Only
N
w .jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126