SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ मनोवेगस्ततोऽवादीत्, कर्णिकाविवरे विधेः केशो लगति चेत् किं न, हस्तिपुच्छं कमण्डलो?॥८७९॥ भज्यते नातसीस्तम्भः, स विश्वस्य कमण्डलो। भारेणकेभयुक्तस्य, भिण्डो मे भज्यते कथम् ॥८८०॥ विश्यं सर्षपमात्रेऽपि, सर्व माति कमण्डलौ । न सिन्धुरो मया साध, कथं विधा महीयसि ॥८८१॥ कस्थितः खोदरान्तस्थे, विष्टपत्रितये हरिः। कागस्त्यः सोऽतसीस्तम्भः?,क भ्रान्तश्च प्रजापतिः ॥८॥ क्षितौ व्यवस्थितो भिण्डस्तत्र सेभः कमण्डलुः । चित्रं न घटते पक्षो, मम यो घटते पुनः॥ ८८३ ॥ सर्वज्ञो व्यापको ब्रह्मा, यो जानाति चराचरम् । सृष्टिस्थानं कथं नासौ, बुध्यते ? येन मार्गति ॥ ८८४ ॥ आक्रष्टुं यः क्षमः क्षिप्रं, नरकादपि देहिनः । असौ वृषणवालाग्रं, न कथं कमलासनः? ॥ ८८५॥ यो ज्ञात्वा प्रलये धात्री, त्रायते सकलां हरिः। सीतापहरणं नासौ, कथं घेत्तिन रक्षति ?॥८८६ ॥ यो मोहयति निःशेष-मसाविन्द्रजिता कथम् । विमोब श्रीपतिर्बद्धो, नागपाशैः सलक्ष्मणः ॥ ८८७ ॥ यस्य स्मरणमात्रेण, नश्यन्ति विपदोऽखिलाः । प्राप्तः सीतावियोगाद्याः, स कथं विपदः खयम् ? ॥८८८॥ निजानि दश जन्मावि, नारदाय जगाद यः। स पृच्छति कथं कान्तां, वकीयां फणिनां पतिम् ? ॥८८९॥ "राजीवपाणिपादास्या, रूपलावण्यवाहिनी। फणिराज त्वया दृष्टा, भामिनी गुणशालिनी" ॥८९०॥ अनादिकालमिथ्यात्व-वातेनाप्रगुणीकृतान् । कः क्षमः प्रगुणीकर्तु, लोकान् जन्मशतैरपि ॥ ८९१॥ Jain Education For Private & Personel Use Only N w .jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy