SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ परे सन्ति परत्रापि. साधवोऽध्यापकाः स्फुटम् । चिन्तयित्वेत्यहं नंष्ट्वा, ततो यातः पुरान्तरम् ॥ ८२७ ॥ मदासिक्तमहीपीठो, गजः सम्मुखमागतः। प्रक्षरनिर्भरः शैल, इव दृष्टो मया पुरे (रः)॥ ८२८॥ हस्तं प्रसार्य मां दृष्ट्वा, धावितः स मतङ्गजः। नियन्तृयन्त्रणोल्लवी, समवर्तीव मूर्तिमान् ॥ ८२९ ॥ कमण्डलुं प्रविष्टोऽह-मपश्यन् शरणं परम् । अपारयन्नहं कर्तुमन्यत्राशु पलायनम् ॥ ८३०॥ बेगेनागत्य तत्रैव, प्रविष्टोऽयं मतङ्गजः । विरुद्धमानसः क्रुद्ध, उत्पाटयितुमुद्यतः॥ ८३१॥ पाटनासक्तचित्तं तं, विलोक्याहं विनिर्गतः। कमण्डलूप्रवक्त्रेण, जीवितोद्यमवान्न कः ॥ ८३२॥ तस्यैव वदनेनाशु, निर्गतोऽयं मतङ्गजः । पुच्छं तत्र विलग्नं तु, स व्यपासितुमक्षमः॥ ८३३ ॥ पुच्छाकर्षणजक्लेशाद्विह्वलः सोऽपतद्भुवि । तथास्थितं तं मुक्त्वाऽहं, गतः खस्थमनाः पुरे ॥ ८३४ ॥ जिनेन्द्रमन्दिरं तत्र, दृष्ट्वा नत्वा जिनेश्वरम् । दुःखगर्भजवैराग्यान्मुनिमार्गमुपात्तवान् ॥ ८३५ ॥ विहरनगरपामाऽऽकी भूमिमिहागतः। नैकत्र यतयो यस्मात्तिष्ठन्त्यप्रतिबन्धिनः ॥ ८३६ ॥ इदं सङ्केपतः प्रोक्तं, मया वश्चरितं निजम् । एवं तदुक्तमाकर्ण्य, प्राहुर्हास्ययुजो द्विजाः ॥ ८३७ ॥ प्रवेशं निर्गमं वा कः, श्रद्धत्तेऽत्र कमण्डलौ ? । हस्तिनः क्लिष्टपुच्छस्य, स्थातां तत्र कथं हि तौ ? ॥८३८॥ अग्नौ नीरं कजं जातु, शिलायां तिमिरं रवी । जायते न पुनर्मूर्ख !, वचसः सत्यता तव ॥ ८३९ ॥ Jain Education n a For Private & Personel Use Only w.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy