SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ * धर्म परीक्षा. खेटो जगाद भो विप्राः!, किं नैतद्वच इष्यते । एतादृशानि वाक्यानि, घनान्येव भवन्मते ॥८४०॥ सूत्रकण्ठास्ततोऽवोचन् , यद्यसंभाव्यमीदृशम् । दृष्टं वेदे पुराणे वा, तदा भद्र ! निगद्यताम् ॥ ८४१॥ सर्वथाऽस्माकमग्राखं, पुराणं शास्त्रमीदृशम् । न न्यायनिपुणाः कापि, न्यायहीनं हि गृह्णते ॥ ८४२ ॥ ऋषिरूपधरोऽवादीत्ततः खेचरनन्दनः । निवेदयामि जानामि, परं विप्रा ! विभेम्यहम् ॥ ८४३ ।। खवृत्तेऽपि मयाऽऽख्याते, रुष्टा यूयमिति द्विजाः !। किं न वेदपुराणार्थेऽकोपिष्यत पुनर्मम ? ॥ ८४४ ॥ सूत्रकण्ठस्ततोऽभाषि, त्वं भाषखाविशतिः । त्वद्वाक्यसदृशं शास्त्रं, त्यक्षामो निश्चितं वयम् ॥ ८४५॥ खेचरेण ततोऽवाचि, यूयं यदि विचारकाः । कथयामि तदा विप्राः! श्रूयतामेकमानसैः॥ ८४६ ॥ एकदा धर्मपुत्रेण, सभायामिति भाषितम् । आनेतुं कोऽत्र शक्नोति, फणिलोकं रसातलात् ॥ ८४७॥ अर्जुनेन ततोऽवाचि, गत्वाऽहं देव ! भूतलम् । सप्तभिर्मुनिभिः सार्धमानयामि फणीश्वरम् ॥ ८४८॥ ततो गाण्डीवमारोप्य, क्षोणी शातमुखैःशरैः । भिन्ना निरन्तरैः क्षिप्रं, कामेनेव वियोगिनी ॥८४९ ॥ रसातलं ततो गत्वा, दशकोटिबलान्वितः । आनीतो भुजगाधीशो, मुनिभिः सप्तभिः समम् ॥ ८५० ॥ अभाषिष्ट ततः खेटः, किंवो युष्माकमागमः। ईदृशोऽस्ति नवा ? त, तेऽवोचन्नस्ति निश्चितम् ॥ ८५१॥ ततः खेटोऽवदवाणविवरेणाप्यणीयसा । दशकोटिबलोपेतो, यथाऽऽयाति फणीश्वरः ॥ ८५२ ॥ ALOCALOCALMALAMALSCREGA ॥३३॥ Jan Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy