Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education In
विप्राणां पुरतः कृत्वा, परमात्मविचारणाम् । उपेत्योपवनं मित्रमवादीत् खचराङ्गजः ॥ ७७५ ॥ श्रुतो मित्र ! त्वया देवविशेषः परमं मतः (परसंमतः ) । विचारणाऽसहस्त्याज्यो, विचारचतुराशयैः ॥ ७७६ ॥ सर्वत्राष्ट गुणाः ख्याता, देवानामणिमादयः । यस्तेषां विद्यते मध्ये, लघिमा स परो गुणः ॥७७७ ॥ पार्वतीस्पर्शतो ब्रह्मा, विवाहे पार्वतीपतेः । क्षिप्रं पुरोहितीभूय, क्षुभितो मदनार्द्दितः ॥ ७७८ ॥ नर्त्तनप्रक्रमे शम्भुस्तापसीक्षोभणोद्यतः । विषेहे दुस्सहान्दी (हां नी ) तो, लिङ्गच्छेदनवेदनाम् ॥ ७७९ ॥ अहिलयाSमराधीशश्छायया यमपावकौ । कुन्त्या दिवाकरो नीतो, लघिमानमखण्डितम् ॥ ७८० ॥ इत्थं न कोऽपि देवोऽस्ति निर्दोषो लोकसम्मतः । परायत्तीकृतो यो न, हत्वा मकरकेतुना ॥ ७८१ ॥ इदानीं श्रूयतां साधो !, निर्दिष्टं जिनशासने । रासभीयशिरश्छेदप्रक्रमं कथयामि ते ॥ ७८२ ॥
(ठ) गर्भभवः शम्भुस्तपः कृत्वा सुदुश्चरम् । सात्यकेरङ्गजो जातो, विद्यानां परमेश्वरः ॥ ७८३ ॥ स नो दशमे वर्षे, विद्यावैभवदृष्टितः । नारीभिर्भूरिभोगाभिर्वृत्ततः को न चाल्यते ? ॥ ७८४ ॥ खेटकन्याः स दृष्ट्वाष्टौ विमुच्य चरणं क्षणात् । तदीयजनकैर्दत्ताः, स्वीचकार स्मरातुरः ॥ ७८५ ॥ अमुष्यासहमानास्ता, रतकर्म्मविपेदिरे । नाशाय जायते कार्ये, सर्वत्राऽपि व्यतिक्रमः ॥ ७८६ ॥ रतकर्मक्षमा गौरी, याचित्वा स्वीकृता ततः । उपाये यतते योऽपि कर्तुकामो हि काङ्क्षितम् ॥७८७॥
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126