Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 65
________________ खखस्थाने निविष्टेषु, देवेषु महिपध्वजः । प्राह वायो! ममादः किमासनत्रयढौकनम् ? ॥ ७४९ ॥ यदि मेऽन्तर्गता कान्ता, द्वितीया विद्यते तदा। भागतो द्वितयं देयं, निमित्तं त्रितये पद ॥७५०॥ वदति स्म ततो वायुर्भद्रोविल मनःप्रियाम् । निबुध्यसे खयं साधो!, भागत्रितयकारणम् ॥ ७५१ ॥ प्रेतभर्ता ततः कान्तां, दृष्ट्वोद्गीर्णा सवलिकाम् । क्षिप्रं बभाण तां भद्रे !, त्वमुद्गिल हुताशनम् ॥ ७५२ ॥ तयोगीर्ण ततो वह्नौ, भाखरे विस्मिताः सुराः। अदृष्टपूर्वके दृष्टे, विस्मयन्ते न किं जनाः? ७५३ ॥ योषा गिलति या वह्नि, ज्वलन्तं मदनातुरा । दुष्करं दुर्गमं वस्तु, न तस्या विद्यते ध्रुवम् ॥ ७५४ ॥ क्रुद्धो यमोऽनलं दृष्ट्वा, दण्डमादाय धावितः। जारे निरीक्षितेऽध्यक्षं, कस्य संपद्यते क्षमा॥७५५ ॥ दण्डपाणिं यमं दृष्ट्वा, जातवेदाः पलायितः। नीचानां जारचौराणां, स्थिरता जायते कुतः ॥ ७५६ ॥ तरुपाषाणवर्गेपु, प्रविश्य चकितः स्थितः । जारचौरा न तिष्ठन्ति, प्रस्पष्टा हि कदाचन ॥ ७५७ ॥ यःप्रविष्टस्तदा वह्निस्तरुजालोपलेषु सः। स्पष्टत्वं याति नाद्यापि, प्रयोगव्यतिरेकतः॥ ७५८ ॥ पुराणमीदृशं विप्रा!, ज्ञायते भवतां नवा । खेटेनेत्युदिते विप्रैर्भद्रैवमिति भाषितम् ॥७५९ ॥ दवीयसोऽपि सर्वेषां, जानानस्य शुभाशुभम् । विशिष्टानुग्रहं शश्वत् , कुर्वतो दुष्टनिग्रहम् ॥ ७६० ॥ खोदरस्थप्रियान्तःस्थे, पावके समवर्तिनः । अज्ञातेऽपि यथा विप्रा!, देवत्वं न पलायते ॥ ७६१॥ Jain Education For Private & Personel Use Only Dlaw.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126