Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
परीक्षा.
॥३०॥
064CCASSOCIATE
छिन्नेऽपि मूषकैः कर्णे, मदीयस्य तथा स्फुटम् । बिडालस्य न नश्यन्ति,गुणा गुणगरीयसः॥७६२॥त्रिभिर्विषेकम्।। आशंसिषुस्ततो विप्राः,शोभनं भाषितं त्वया।विज्ञा विज्ञवचः श्रुत्वा, यथार्थ दूषयन्ति न ॥७६३॥ शतधा भो विशीर्यन्ते, पुराणानि विचारणे । वसनानीव जीर्णानि, किं कुर्मो भद्र ! दुःशके १॥७६४ ॥ तेषामिति वचः श्रुत्वा, प्राह खेचरनन्दनः । श्रूयतां ब्राह्मणा ! देवः, संसारद्रुमपावकः ॥ ७६५॥ लावण्योदकवेलाभिर्मन्मथाऽऽवासभूमिभिः। त्रिलोकोत्तमरामाभिर्गुणसौन्दर्यखानिभिः ॥ ७६६ ॥ विध्यन्तीभिर्जनं सर्व. कटाक्षेक्षणमार्गणैः । न यस्य भिद्यते चेत-स्तं देवं नमत त्रिधा ॥ ७६७॥ युग्मम् ॥ विहाय पावनं योग, शङ्करः शिवकारणम् । शरीरार्धगतां चक्रे, पार्वतीमेकमानसः ॥ ७६८॥ विष्णुना कुर्वताऽऽदेशं, यदीयं सुखकाटिणा । अकारि हृदये पद्मा, गोपीनखविदारिते ॥ ७६९॥ दृष्ट्वा दिव्यवधूनृत्तं, ब्रह्माऽभूचतुराननः । वृत्तं तृणमिव त्यक्त्वा, ताडितो येन सायकैः ॥ ७७० दुर्वारैर्मार्गणैस्तीक्ष्णैर्येनाऽऽहत्य पुरन्दरः । सहस्रभगतां नीतः, कृत्वा दुष्कीर्त्तिभाजनम् ॥ ७७१ ॥ शासिताशेषदोषेण, सर्वेभ्योऽपि बलीयसा । यमेन बिभ्यताऽन्तःस्था, सदाऽकारि प्रिया यतः ॥ ७७२॥ मुखीभूतोऽपि देवानां, त्रिलोकोदरवर्तिनाम् । ग्रावानोकहवर्गेषु, वह्निर्येन प्रवेशितः ॥ ७७३ ॥ स जितो मन्मथो येन, सर्वेषामपि दुर्जयः। तस्य प्रसादतः सिद्धिर्जायते परमेष्ठिनः॥७७४॥ सप्तभिः कुलकम्॥
॥३०॥
Jain Education Inter
For Private & Personel Use Only
ww.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126