Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रपद्यते सदा मुग्धो, यः सुन्दरमसुन्दरं । उच्यते पुरतस्तस्य, न प्राज्ञेन सुभाषितम् ॥ ३५९ ॥ वश्यते सकलो लोको, लोकैः कामार्थलोलुपैः । यतस्ततः सदा सद्भिर्विवेच्यं शुद्धया धिया ॥३६॥ व्युद्धाही कथितो विप्राः ? कथ्यते पित्तदूषितः । इदानीं श्रूयतां कृत्वा, समाधानमखण्डितम् ॥३६१॥ अजनिष्ट नरः कश्चिद्विबलीभूतविग्रहः। पित्तज्वरेण तीव्रण, वह्निनेव करालितः॥ ३६२॥ तस्य शर्करया मिश्रं, तुष्टिपुष्टिप्रदायकम् । अदायि क्वथितं क्षीरं, पीयूषमिव पावनम् ॥ ३६३॥ सोऽमन्यताधमस्तिक्तमेतन्निम्बरसोपमम् । भाखरं भाखतस्तेजः, कौशिको मन्यते तमः ॥३६४ ॥ इत्थं नरो भवेत्कश्चिद्युक्तायुक्ताविवेचकः । मिथ्याज्ञानमहापित्तज्वरव्याकुलिताशयः ॥ ३६५॥ तस्य प्रदर्शितं तत्त्वं, प्रशान्तिजननक्षमम् । जन्ममृत्युजराहारि, दुरापममृतोपमम् ॥ ३६६ ॥ कालकूटोपमं मूढो, मन्यते शान्तिकारकम् । जन्ममृत्युजराकारि, सुलभं हतचेतनः॥३६७॥त्रिभिर्विशेषकम्॥ सोऽज्ञानव्याकुलखान्तो, भण्यते पित्तदूषितः । प्रशस्तमीक्षते सर्व-मप्रशस्तं सदापि यः ॥ ३६८ ॥ अन्याय्यं मन्यते न्याय्यं, विमर्शज्ञानवर्जितः। न किञ्चनोपदेष्टव्यं, तस्य तत्त्वविचारिभिः॥ ३६९ ॥ दर्शितो भवतां पित्तदूषितो भो द्विजोत्तमाः!। अधुना भण्यते चूतः, सावधानैर्निशम्यताम् ॥ ३७०॥ अङ्गदेशेऽभवचम्पा-नगरी विबुधार्चिता। देवावासाप्सरोरम्या, हृद्यधामामरावती ॥ ३७१॥
Jain Education
For Private & Personel Use Only
T
w.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126