Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 44
________________ धर्म परीक्षा. ॥१९॥ साधो गृहाण को दोष-स्तेनोक्त्वेति विचेतसा । आदाय दारुसन्दोहं, वितीर्ण वाणिजाय तत् ॥ ४७६ ॥ वणिजागत्य वेगेन, घर्षित्वा बुद्धिशालिना। विलिसो भूपतेर्देहश्चन्दनेनाऽमुनाभितः॥४७७॥ तस्य स्पर्शेन निःशेषस्तापो राज्ञः पलायितः । इष्टस्येव कलत्रस्य, दुरुच्छेदो वियोगिनः॥ ४७८ ॥ पूजितो वाणिजो राज्ञा(ज्यं), दत्वा भाषितमञ्जसा । उपकारो वरिष्ठानां, कल्पवृक्षाय ते कृतः॥ ४७९ ॥ काष्ठप्रसादतः पूजां, वणिजस्य निशम्य ताम् । स्वशिरस्ताडमाक्रन्दीद्रजकः शोकतापितः॥४८॥ रजकप्रतिमो विप्रो, विद्यते यदि कश्चन । विभेम्यहं तदा तत्त्वं, पृच्छयमानोऽपि भाषितुम् ॥ ४८१॥ इत्थं सुचन्दनत्यागी, भाषितो ज्ञानदुर्विधः। सर्वनिन्दास्पदं मूर्खः, साम्प्रतं प्रतिपाद्यते ॥ ४८२॥ चत्वारोऽथ महामूर्खा, गच्छन्तः कापि लीलया । मुमुक्षुमेकमद्राक्षुर्जिनेश्वरमिवानघम् ॥ ४८३ ॥ भून्यस्तमस्तकास्तेऽपि, पादौ तस्य ववन्दिरे, । तारको भवपाथोधे-ारको नरकापदाम् ॥ ४८४ ॥ धर्मलाभाशिषं तेषां, चतुर्णामप्यसौ मुनिः । पापाद्रिभेदवज्राभां, सर्वदुःखविनाशिनीम् ॥ ४८५ ॥ उपत्यक योजनांतं, विवदन्ते स्म ते मिथः । जडानां स्यात् कुतो बुद्धिः, सम्यग्मार्गानुयायिनी ॥ ४८६ ॥ अजल्पदेकः साधुः स, धर्मलाभमदत्त मे । परोऽप्येवमभूत्तेषां, कलिरेवं विवादिनाम् ॥ ४८७ ॥ अजल्पदेकः किं राटिर्जडा व्यर्थ विधीयते ? । पृच्छयतां साधुरेवासौ, न तमः सति भास्करे ॥ ४८८ ॥ ॥ १९॥ Jain Education For Private Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126