Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 55
________________ मीनः कूर्मः पृथुप्रोथो, नरसिंहोऽथ वामनः।रामो रामश्च रामश्च, (कृष्णश्च) बुद्धः कल्की दश स्मृताः ॥६१९॥ यमुक्त्वा निष्कलं प्राहुर्दशावर्त्तगतं पुनः। भण्यते स बुधैर्नाप्तः, पूर्वापरविबाधतः ॥ ६२०॥ प्रक्रमं बलिवन्धस्य, कथयामि तवाधुना । तं योऽन्यथा जनै तः, प्रसिद्धिं मुग्धबुद्धिभिः ॥६२१ ॥ बद्धो विष्णुकुमारण, योगिना लब्धिभागिना । मित्रद्विजो बलिर्दुष्टः, संयतोपद्रवोद्यतः॥ ६२२॥ विष्णुना वामनीभूय, बलिर्बद्धः क्रमैत्रिभिः । इत्येवमन्यथा लोकैहीतो मूढमोहितैः ॥ ६२३ ॥ नित्यो निरअनः सूक्ष्मो, मृत्यूत्पत्तिविवर्जितः । अवतारमसौ प्राप्तो, दशधा निष्कलः कथम् ॥ ६२४ ॥ पूर्वापरविरोधाऽऽयं, पुराणं लौकिकं तव । वदाम्यन्यदपीत्युक्त्वा, खेटविग्रहमत्यजत् ॥ ६२५ ॥ वक्रकेशमहाभारः, पुलीन्द्रः कजलच्छविः । विद्याप्रभावतः स्थूल-पादपाणिरभूदसौ॥ ६२६ ॥ ततः पवनवेगोऽपि, मार्जारः कपिलेक्षणः । मार्जारविद्यया कृष्णो, विलुप्तश्रवणोऽजनि ॥६२७ ॥ प्रविश्य पत्तनं कुम्भे, बिडालं विनिवेश्य सः । तूर्यमाताड्य घण्टां च, निविष्टो हेमविष्टरे ॥ ६२८ ॥ तूर्यस्वने श्रुते विप्राः, प्राहुरागत्य वेगतः। किं रे वादमकृत्वा त्वं, स्वर्णपीठमधिष्ठितः ? ॥ ६२९॥ ततोऽवोचदसौ विप्रा!, वादनामापि वेनि नो । करोम्यहं कथं वादं, पशुरूपो वनेचरः? ॥ ६३०॥ यद्येवं त्वं कथं मू(रू)ढो, मूर्ख ! काञ्चनविष्टरे । निहत्य तरसा तूर्य, भद्र ! वादनिवेदकम् ॥ ६३१॥ ॐ52345555555 Jain Education in For Private & Personel Use Only Ryjainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126