Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
॥ २७ ॥
Jain Education
mational
एकदा विष्टरक्षोभे, जाते सति पुरन्दरः । पप्रच्छ धिषणं साधो !, केनाक्षोभि ममासनम् ? ॥ ६८४ ॥ जगाद धिषणो देव!, ब्रह्मणः कुर्वतस्तपः । अर्धाष्टा (अब्दार्धा) टसहस्राणि वर्त्तन्ते राज्यकाङ्क्षया ।। ६८५ ॥ प्रभो! तपःप्रभावेण तस्यायं महता तव । अजनिष्टासनक्षोभस्तपसा किं न साध्यते ? ॥ ६८६ ॥ हरे ! हर तपस्तस्य त्वं प्रेर्य स्त्रियमुत्तमाम् । नोपायो वनितां हित्वा तपसो हरणेऽपरः ॥ ६८७ ॥ ग्राहं ग्राहमसौ स्त्रीणां, दिव्यानां तिलमात्रकम् । रूपं निवर्तयामास, भव्यां रामां तिलोत्तमाम् ॥ ६८८ ॥ मनो मोहयितुं दक्षं, जीर्ण मद्यमिवोर्जितम् । ब्रह्मणः पुरतचक्रे, सा नृत्तं रससङ्कुलम् ॥ ६८९ ॥ शरीरावयवा गुह्या, दर्शिता दक्षया तया । मेघा वर्धयितुं सद्यः, कुसुमायुधपादपम् ॥ ६९० ॥ पादयोर्जयोरुवर्विस्तीर्णे जघनस्थले । नाभिविम्वे स्तनद्वन्द्वे, ग्रीवायां मुखपङ्कजे ॥ ६९१ ॥ दृष्टिर्वश्रम्य विश्रम्य धावमाना समन्ततः । ब्रह्मणो विग्रहे तस्याश्चिरं चिक्रीड चञ्चला ॥ ६९२ ॥ बिभेद हृदयं तस्य, मन्दसञ्चारकारिणी । विलासविभ्रमाधारा, सा विन्ध्यस्येव नर्मदा ॥ ६९३ ॥ रक्तं विज्ञाय तं दृष्ट्या, दक्षिणापश्चिमोत्तराः । भ्रमयन्ती मनस्तस्य बभ्राम क्रमतो दिशः ।। ६९४ ॥ लज्जमानः स देवानां वलित्वा न निरीक्षते । लज्जाभिमानमायाभिः, सुन्दरं क्रियते कुतः ? ॥ ६९५ ॥ तपो वर्षसहस्रत्थं, दत्वा प्रत्येकमस्तधीः । एकैकस्यां स काष्ठायां दिदृक्षुस्तां व्यधान्मुखम् ॥ ६९६ ॥
For Private & Personal Use Only
परीक्षा.
॥ २७ ॥
w.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126