Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
॥ २८ ॥
Jain Education In
aar मृगगणाकीर्णमविक्षद्गहनं वनम् । तीत्रकामाभिसन्तप्तः, क्व न याति विचेतनः १ ॥ ७१० ॥ विलोक्यर्तुमतीमृक्ष, ब्रह्मा तत्र न्यषेवत । ब्रह्मचर्योपतप्तानां रासभ्यप्यप्सरायते ॥ ७११ ॥ आसाद्य तरसा गर्भ, सा पूर्णे समये ततः । असूत जाम्बवं पुत्रं, प्रसिद्धं भुवनत्रये ॥ ७१२ ॥ यः कामार्त्तमना ब्रह्मा, तिरश्चीमपि सेवते । स सुन्दरां कथं कन्यामेनां मोक्ष्यति मूढधीः ? ॥ ७१३ ॥ अहल्यां चितभूभलिं दृष्ट्वा गौतमवल्लभाम् । अतिकामाकुलो जातो, बिडौजाः पारदारिकः ॥ ७१४ ॥ गौतमेन कुधा शप्तः, स सहस्रभगोऽभवत् । दुःखं न प्राप्यते केन, मन्मथाऽऽदेशवर्त्तिना ? ॥ ७१५ ॥
गृह्यतामेष, त्रिदशैरति भाषिते । सहस्राक्षः कृतस्तेन, भूयोऽनुग्रहकारिणा ॥ ७१६ ॥ इत्थं कामेन मोहेन, मृत्युना यो न पीडितः । नासौ निर्दूषणो लोके, देवः कोऽपि विलोक्यते ॥ ७१७ H एक एव यमो देवः, सत्यशौचपरायणः । विपक्षमर्दको धीरः, समवर्ती विद्यते ॥ ७१८ ॥ स्थापयित्वाsस्य सांनिध्ये, कन्यां यात्रां करोम्यहम् । ध्यात्वेति स्थापिता तेन, दुहिता यमसन्निधौ ॥ ७१९ ॥ सीकस्तीर्थयात्रार्थ, गतो मण्डपकौशिकः । भूत्वा निराकुलः प्राज्ञो, धर्म्मकृत्यैः (ये) प्रवर्तते ॥ ७२० ॥ मनोभवरुक्षोणी, दृष्ट्वा सा समवर्तिना । अकारि प्रेयसी खस्य, नास्ति रामासु निःस्पृहः ॥ ७२१ ॥ परापहारभीतेन, सा कृतोदरवर्तिनी । वल्लभां कामिनीं कामी, क्व न स्थापयते कुधीः ? ॥ ७२२ ॥
For Private & Personal Use Only
परीक्षा.
॥ २८ ॥
w.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126