SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ २८ ॥ Jain Education In aar मृगगणाकीर्णमविक्षद्गहनं वनम् । तीत्रकामाभिसन्तप्तः, क्व न याति विचेतनः १ ॥ ७१० ॥ विलोक्यर्तुमतीमृक्ष, ब्रह्मा तत्र न्यषेवत । ब्रह्मचर्योपतप्तानां रासभ्यप्यप्सरायते ॥ ७११ ॥ आसाद्य तरसा गर्भ, सा पूर्णे समये ततः । असूत जाम्बवं पुत्रं, प्रसिद्धं भुवनत्रये ॥ ७१२ ॥ यः कामार्त्तमना ब्रह्मा, तिरश्चीमपि सेवते । स सुन्दरां कथं कन्यामेनां मोक्ष्यति मूढधीः ? ॥ ७१३ ॥ अहल्यां चितभूभलिं दृष्ट्वा गौतमवल्लभाम् । अतिकामाकुलो जातो, बिडौजाः पारदारिकः ॥ ७१४ ॥ गौतमेन कुधा शप्तः, स सहस्रभगोऽभवत् । दुःखं न प्राप्यते केन, मन्मथाऽऽदेशवर्त्तिना ? ॥ ७१५ ॥ गृह्यतामेष, त्रिदशैरति भाषिते । सहस्राक्षः कृतस्तेन, भूयोऽनुग्रहकारिणा ॥ ७१६ ॥ इत्थं कामेन मोहेन, मृत्युना यो न पीडितः । नासौ निर्दूषणो लोके, देवः कोऽपि विलोक्यते ॥ ७१७ H एक एव यमो देवः, सत्यशौचपरायणः । विपक्षमर्दको धीरः, समवर्ती विद्यते ॥ ७१८ ॥ स्थापयित्वाsस्य सांनिध्ये, कन्यां यात्रां करोम्यहम् । ध्यात्वेति स्थापिता तेन, दुहिता यमसन्निधौ ॥ ७१९ ॥ सीकस्तीर्थयात्रार्थ, गतो मण्डपकौशिकः । भूत्वा निराकुलः प्राज्ञो, धर्म्मकृत्यैः (ये) प्रवर्तते ॥ ७२० ॥ मनोभवरुक्षोणी, दृष्ट्वा सा समवर्तिना । अकारि प्रेयसी खस्य, नास्ति रामासु निःस्पृहः ॥ ७२१ ॥ परापहारभीतेन, सा कृतोदरवर्तिनी । वल्लभां कामिनीं कामी, क्व न स्थापयते कुधीः ? ॥ ७२२ ॥ For Private & Personal Use Only परीक्षा. ॥ २८ ॥ w.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy