________________
कृष्ट्वा कृष्ट्वा तया साध, भुक्त्वा भोगमसौ पुनः। गिलित्वा कुरुतेऽन्तःस्था, नाशशङ्कितमानसः॥ ७२३॥ इत्थं तया समं तस्य, भुञानस्य रतामृतम् । कालः प्रावर्त्ततात्मानं, पश्यतस्त्रिदशाधिकम् ॥ ७२४ ॥ खटिका पुस्तिका रामा, परहस्तं गता सती। नष्टा ज्ञेयाऽथवा पुंसा, धृष्टा स्पृष्टोपलभ्यते ॥ ७२५ ॥ पवनेनैकदाऽवाचि, पावको, भद्र ? सर्वदा । एकः सुधाभुजां मध्ये, यमो जीवति सौख्यतः॥ ७२६ ॥ तेनैका सा वधूलब्धा, सुरतामृतवाहिनी । यामालिङ्गय दृढं शेते, सुखसागरमध्यगः ॥ ७२७॥ न तया दीयमानेऽसौ, सुखे तृप्यति पावने । नितम्बिन्या जले नित्यं, गङ्गयेव पयोनिधिः ॥ ७२८॥ कथं मे जायते सङ्गः, समवर्तिस्त्रिया समम् । पावकेनेति पृष्टोऽसौ, निजगाद समीरणः ॥ ७२९ ॥ रक्ष्यमाणाऽमुना तन्वी, न द्रष्टुमपि लभ्यते। कुत एव पुनस्तस्याः, सङ्गमोऽस्ति विभावसो!॥ ७३०॥ खकीयया श्रिया सर्वा, जयन्ती सुरसुन्दरीः। रतं निषेव्य सा तेन, जठरस्था विधीयते ॥ ७३१ ॥ एकाकिनी स्थिता स्पष्टं, याममेकं विलोचनैः । बहिःशङ्काऽवसरे सा, केवलं दृश्यते सती ॥ ७३२ ॥ अवाचि वह्निना वायो ?, यामेनकेन निश्चितम् । स्त्रीहामि त्रिलोकस्थाः, कैवाऽऽस्थैकत्र योषिति ?॥७३३॥ एकाकिनी यौवनस्थां, युवानः स्मरविह्वलाम् । कुर्वन्ति सुन्दरी नात्र, चित्रं किमपि विद्यते ॥ ७३४ ॥ उक्त्वेति वह्निस्तत्रागाद्यत्र मुक्त्वा वहिः स्त्रियम् । विदधाति बहिःशङ्कां, यमो गङ्गातटे शुचिः॥७३५॥ |
Jain Education in
For Private & Personel Use Only
Kaw.jainelibrary.org