Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
परीक्षा.
॥२६॥
अथ प्राहुरिमं विप्रा, वयं मूर्खाः किमीशाः । न विनो येन युक्त्याऽपि, घटमानं वचः स्फुटम् ॥ ६५८ ॥ ततोऽभाणीत् खगाधीशनन्दनो बुधनन्दनः। यद्येवं श्रूयतां विप्राः!, स्पष्टयामि मनोगतम् ॥ ६५९ ॥ तापसस्तपसामासीत् , मण्डपः कौशिकाभिधःनिवासो गुणरत्नानां, महसामिव भास्करः ॥ ६६०॥ विशुद्धविग्रहरेष, नक्षत्रैरिव चन्द्रमाः। निविष्टो भोजनं भोक्तुं, तापसैरेकदा सह ॥ ६६१॥ संस्पर्शभीतचेतस्काश्चण्डालमिव गर्हितम् । एनं निषण्णमालोक्य, सर्वे ते तरसोत्थिताः ॥ ६६२ ॥ तेन ते तापसाः पृष्टाः, सह(सं)भुञ्जानाः समुत्थिताः। सारमेयमिवालोक्य, किं मां यूयं निगद्यताम् ॥६६३॥ अभाषि तापसरेप, तापसानां बहिर्भव । कुमारब्रह्मचारी त्वमदृष्टतनयाऽऽननः॥६६४॥ अपुत्रस्य गति स्ति, खर्गो नैव च नैव च । ततः पुत्रमुखं दृष्ट्वा, श्रेयसे क्रियते तपः ॥ ६६५ ॥ तेन गत्वा ततः कन्यां, याचिताः खजना निजाः । वयोऽतीततया नादुस्तस्मै तां ते कथञ्चन ॥ ६६६ ॥ भूयोऽपि तापसाः पृष्टा, वेगेनागस तेन ते । स्थविरस्य न मे कन्यां, कोऽपि दत्ते करोमि किम् ॥ ६६७ ॥ तैरुक्तं विधवां वापि, त्वं संगृह्य गृहीभव । नोभयोर्विद्यते दोष, इत्युक्तं तापसागमे ॥६६८ ॥ पत्यौ प्रबजिते क्लीबे, प्रनष्टे पतिते मृते । पञ्चखापत्सु नारीणां, पतिरन्यो विधीयते ॥ ६६९॥ तेनातो विधवाऽग्राहि, तापसादेशवर्त्तिना । खयं हि विषये लोलो, गुर्वादेशेन किं पुनः ॥ ६७०॥
॥२६॥
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126