Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
परीक्षा.
सोऽवादीदहमारूढः, कौतुकेनात्र विष्टरे। न पुनर्वादिदर्पण, तूर्यमास्फाल्य माहनाः! ॥ ६३२ ॥ नार्हत्वं यदि मूर्खस्य, हेमपीठाधिरोहणे । उत्तिष्ठामि तदा विप्रा!, इत्युक्त्वाऽवततार सः॥ ६३३ ॥ विरुक्तः किमायातस्त्वमत्रेति ? ततोऽवदत् । मार्जारविक्रयं कर्तु-मायातोऽहं वनेचरः ॥ ६३४ ॥
ओतोः किमस्य माहात्म्यं?, किं मूल्यं विद्यते ? वद । इत्यसौ ब्राह्मणैरुक्तो, निजगाद नभश्चरः ॥ ६३५॥ अस्य गन्धेन नश्यन्ति, देशे द्वादशयोजने । आखवो निखिलाः सद्यो, गरुडस्येव पन्नगाः ॥ ६३६ ॥ मूल्यं पलानि पञ्चाशत, वर्णस्यास्य महौजसः। तदाऽयं गृह्यतां विप्रा!, यदि वोऽस्ति प्रयोजनम् ॥ ६३७ ॥ मिलित्वा ब्राह्मणाः सर्वे, वदन्ति स्म परस्परम् । विडालो गृह्यतामेष, मूषकक्षपणक्षमः ॥ ६३८॥ एकत्र वासरे द्रव्यं, मूषकैर्यविनाश्यते । सहस्रांशोऽपि नो तस्य, मूल्यमेतस्य दीयते ॥ ६३९ ॥ मीलयित्वा ततो मूल्यं, क्षिप्रमग्राहि स द्विजैः । दुरापे वस्तुनि प्राज्ञैन कार्या कालयापना ॥ ६४०॥ नभश्चरस्ततोऽवादीत्, परीक्ष्य गृह्यतामयम् । इत्युक्त्वा(क्ता) ब्राह्मणास्तस्याङ्गोपाङ्गानि व्यलोकयन् ॥ ६४१॥ कर्णनाशं निरीक्ष्यास्य, प्रोचिरे तं द्विजातयः । कर्णच्छेदः कथं जातो?, बिडालस्याथ सोऽवदत् ॥६४२॥ गतरात्री वयं मार्गश्रान्ताः सुप्ता यदा तदा । भक्षितो मूषकैरस्य, कर्णः सुरगृहाङ्गणे ॥ ६४३॥ बभाषिरे ततो विप्रा, वचसस्ते परस्परम् । विरोधो जायते मूर्ख!, पूर्वापरविचारणात् ॥ ६४४ ॥
8॥२५॥
Jain Education intml
For Private & Personel Use Only
Hjainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126