SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ धर्म परीक्षा. ॥२६॥ अथ प्राहुरिमं विप्रा, वयं मूर्खाः किमीशाः । न विनो येन युक्त्याऽपि, घटमानं वचः स्फुटम् ॥ ६५८ ॥ ततोऽभाणीत् खगाधीशनन्दनो बुधनन्दनः। यद्येवं श्रूयतां विप्राः!, स्पष्टयामि मनोगतम् ॥ ६५९ ॥ तापसस्तपसामासीत् , मण्डपः कौशिकाभिधःनिवासो गुणरत्नानां, महसामिव भास्करः ॥ ६६०॥ विशुद्धविग्रहरेष, नक्षत्रैरिव चन्द्रमाः। निविष्टो भोजनं भोक्तुं, तापसैरेकदा सह ॥ ६६१॥ संस्पर्शभीतचेतस्काश्चण्डालमिव गर्हितम् । एनं निषण्णमालोक्य, सर्वे ते तरसोत्थिताः ॥ ६६२ ॥ तेन ते तापसाः पृष्टाः, सह(सं)भुञ्जानाः समुत्थिताः। सारमेयमिवालोक्य, किं मां यूयं निगद्यताम् ॥६६३॥ अभाषि तापसरेप, तापसानां बहिर्भव । कुमारब्रह्मचारी त्वमदृष्टतनयाऽऽननः॥६६४॥ अपुत्रस्य गति स्ति, खर्गो नैव च नैव च । ततः पुत्रमुखं दृष्ट्वा, श्रेयसे क्रियते तपः ॥ ६६५ ॥ तेन गत्वा ततः कन्यां, याचिताः खजना निजाः । वयोऽतीततया नादुस्तस्मै तां ते कथञ्चन ॥ ६६६ ॥ भूयोऽपि तापसाः पृष्टा, वेगेनागस तेन ते । स्थविरस्य न मे कन्यां, कोऽपि दत्ते करोमि किम् ॥ ६६७ ॥ तैरुक्तं विधवां वापि, त्वं संगृह्य गृहीभव । नोभयोर्विद्यते दोष, इत्युक्तं तापसागमे ॥६६८ ॥ पत्यौ प्रबजिते क्लीबे, प्रनष्टे पतिते मृते । पञ्चखापत्सु नारीणां, पतिरन्यो विधीयते ॥ ६६९॥ तेनातो विधवाऽग्राहि, तापसादेशवर्त्तिना । खयं हि विषये लोलो, गुर्वादेशेन किं पुनः ॥ ६७०॥ ॥२६॥ For Private Personel Use Only www.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy