Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
परीक्षा..
॥२१॥
न तेन किंचन त्यक्तं, गृह्णता द्रविणं गृहे । छिद्रेऽहिजारचौराणां, जायते प्रभविष्णुता ॥ ५२८ ॥ प्रियायाः ऋष्टमारब्धे, तेनाधःपरिधानके । जल्पितं रे दुराचार!, त्वं किमद्याप्युपेक्षसे ॥ ५२९ ॥ आकृष्टे मे वरीयेऽपि, त्वं जीवसि कथं शठः । जीवितव्यं कुलीनानां, भार्यापरिभवाऽवधि ॥ ५३० ।। तदीयं वचनं श्रुत्वा, विहस्य भणितं मया । हारितं हारितं कान्ते !, प्रथमं भाषितं त्वया ॥ ५३१॥ गुडेन सर्पिषा मिश्राः, प्रतिज्ञाताः खयं त्वया । पङ्कजाक्षि दशापूपा, दीयन्तां मम सांप्रतम् ॥ ५३२॥ इदं पश्यत मूर्खत्वं, मदीयं येन हारितम् । सर्व पूर्वार्जितं द्रव्यं, दुरापं धर्मशगंदम् ॥ ५३३॥ तदा वोट इति ख्यातं, मम नाम जनैः कृतम् । विडम्बनां न कामेति, प्राणी मिथ्याभिमानतः? ॥ ५३४॥ वोटेन सदृशा मूर्खा, ये भवन्ति नराधमाः। न तेषामधिकारोऽस्ति, सारासारविचारणे ॥ ५३५ ॥ मूर्खत्वं प्रतिपाद्येति, तृतीयेऽवसिते सति । प्रारेमे बालिशस्तुर्यो, भाषितुं लोकभापितः॥५३६ ॥ गतोऽहमेकदा नेतुं, श्वशुरं निजवल्लभाम् । मनीषितसुखाधारं, स्वर्गवासमिवापरम् ॥ ५३७ ॥ विचित्रवर्णसङ्कीर्ण, स्निग्धं प्रह्लादनक्षमम् । खग्रामे भोजनं दत्तं, निजवाक्यमिवोज्वलम् ॥ ५३८॥ न लजां वहमानेन, मयाऽभोजि प्रियङ्करम् । विकलेन दुरुच्छेदां, व्यथामिव दुरुत्तराम् ॥ ५३९ ॥ ग्रामेयकवधूर्दृष्ट्वा, न मयाऽकारि भोजनम् । द्वितीयेऽपि दिने तत्र, व्यथा(देव्य) इव सविग्रहाः॥५४॥
॥२१॥
in Eduent and
For Private & Personel Use Only
M
w.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126