Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 50
________________ धर्म-15 परीक्षा ॥२२॥ शङ्खध्मस्येव मे दृष्ट्वा, कपोलो ग्रावनिष्ठुरौ । स्पृष्ट्वा हस्तेन सोऽध्यासीदिङ्गिताकारपण्डितः ॥ ५५४ ॥ अचर्वितं मुखे क्षिप्त, किंचनास्य भविष्यति । बुभुक्षार्तस्य शङ्केऽहं, चेष्टाऽन्यस्य न हीदृशी ॥५५५॥ खट्टाऽधःस्थं तन्दुलानां, पात्रं दृष्ट्वाऽवदद्भिषक् । माताधिस्तन्दुलीयो, दुःसाध्योऽस्याऽभवद्भृशम् ॥५५६ ॥ भूरि हव्यं काङ्कितं मे, दत्सि चेन्मातरेककं । कुर्वे नीरोगिणं तर्हि, प्रपेदे सापि तद्वचः ॥५५७ ॥ पाटयित्वा कपोली मे, तेन शालीयतन्दुलाः । दर्शिताः कीटका नानाकारा इत्युक्तिपूर्वकम् ॥५५८॥ लब्ध्वा स काङ्कितं द्रव्यं, वैद्यस्तुष्टो गृहं गतः। दुर्निवारा मया सोढा, पीडा मूकेन मौर्यतः॥ ५५९ ॥ हासं हासं तदा लोकैर्गलस्फोटिकनामने (तः)। कृतं हास्यं न किं याया, दुष्टचेष्टानिविष्टधीः ॥५६॥ मौख्यं मे यादृशं पौरास्तादृशं क्वापि संश्रुतम् । दृष्टं वापि ? यतो गलस्फोटे मूकोऽहमास्थितः ॥ ५६१ ॥ पौरैरुक्ताश्च चत्वारस्तेऽपि मौाभिमानिनः । मौख्यं निजं शोचयध्वं, गत्वा पार्थ तपखिनः॥५६२ ॥ एवं च मूर्खाश्चत्वारो, दर्शिता यदि तादृशः । युष्मन्मध्येऽस्ति भो विप्रस्तदा वक्तुं बिभेम्यहम् ॥ ५६३ ॥ रागान्धलोचनो रक्तो, द्विष्टो द्वेषकरः खलः । विज्ञानविकलो मूढो, व्युद्धाही स मतः खलः ॥ ५६४ ॥ पैत्तिको विपरीतात्मा, चूतच्छेद्यपरीक्षकः । अज्ञानः सुरभित्यागी, सशोकोऽगरुविक्रयी ॥ ५६५ ॥ विक्रीतचन्दनो लोभी, बालिशो निर्विवेचनः।दशैते यदि युष्मासु, तदा वक्तुं विभेम्यहम् ॥५६६॥ त्रिभिः कुलकम् * ॥२२॥ HainEducation.in For Private Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126