Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 49
________________ तृतीये वासरे जातः, प्रबलो जाठरोऽनलः । सर्वाङ्गीणमहादाहः, क्षयकालानलोपमः॥५४१॥ शयनाधस्तनो भागो, मयालोकि शनैस्ततः । बुभुक्षापीडितः कस्य, सम्मुखं न विलोकते ॥५४२॥ विशालं भाजनं तत्र, शालीयैस्तन्दुलैर्भूतम् । विलोकितं मया व्योम, शुद्धैश्चन्द्रकरैरिव ॥ ५४३॥ मयालोक्य गृहद्वारं, तन्दुलैः पूरितं मुखम् । उदरानलतप्तस्य, मर्यादा हि कुतस्तनी? ॥ ५४४ ॥ तस्विन्नेव क्षणे तत्र, प्रविष्टा मम वल्लभा । त्रपमाणमनास्तस्याः, फुलगल्लाननः स्थितः ॥ ५४५॥ उत्फुल्लगलं मां वीक्ष्य, स्तब्धीकृतविलोचनम् । सा मातुः सूचयामास, शङ्कमाना महाव्यथाम् ॥ ५४६ ॥ श्वश्रूरागत्य मां दृष्ट्वा, सन्दिग्धा जीवितेऽजनि । प्रेम पश्यत्यकाण्डेऽपि, प्रियस्य विपदं पराम् ॥ ५४७॥ यथा यथा मम श्वश्रूर्गल्लौ पीडयते शुचा। तथा तथा स्थितः कृत्वा, स्तब्धो विह्वलविग्रहः ॥५४८॥ रुदन्तीं मे प्रियां श्रुत्वा, सर्वा ग्रामीणयोषितः । मिलित्वाऽवादिपुर्व्याधीन् , योजयन्त्यः सहस्रशः ॥५४९॥ एका जगाद मातृणां, सपर्या न कृता यतः । ततोऽजनिष्ट दोषोऽयं, परमस्ति न कारणम् ॥ ५५॥ अभाणीदपरा दोषो, देवतानामयं स्फुटम् । आकस्मिकीदृशी पीडा, जायते परथा कथम् ? ॥ ५५१ ॥ इत्थं तासु वदन्तीषु, रामासु व्याकुलात्मसु । आगतः सा (सोऽ) वरो वैद्यो, भाषमाणः खवैद्यताम् ॥५५२॥ आहूय त्वरया कृत्वा, दोषोत्पत्ति निवेद्यताम् । दास्याहं दर्शितः श्वश्वा, वैद्यस्यातुरचित्तया ॥ ५५३॥ - Jain Education in For Private & Personal Use Only A jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126