Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
परीक्षा.
॥२०॥
प्रज्वलन्त्यूवक्रस्य, मूषकेण दुरात्मना । पतिता नीयमाना मे, नेत्रस्योपरि वार्तिका ॥५०२॥ विचिन्तयितुमारब्धं, मयेदं व्याकुलात्मना। जागरित्वा ततः सद्यो, दह्यमाने विलोचने ॥ ५.३॥ यदि विध्यापयाम्यग्निं, हस्तमाकृष्य दक्षिणम् । तदा कुप्यति मे कान्ता, दक्षिणाथ परं परा ॥ ५०४॥ ततो भार्याभयग्रस्तः, स्थितस्तावदहं स्थिरः । स्फुटित्वा नयनं यावद्वामं काणं ममाऽभवत् ॥ ५०५॥ ज्वलित्वा स्फुटिते नेत्रे, शशाम ज्वलनः खयम् । नाकारि कश्चनोपायो, मया भीतेन शान्तये ॥ ५०६ ॥ मयेह सदृशो मूर्यो, विद्यते यदि कथ्यताम् । यः स्त्रीत्रस्तो निजं नेत्रं, दह्यमानमुपेक्षते ॥ ५०७॥ स्फुटितं विषमं नेत्रं, स्त्रीभीतस्य यतस्ततः। ततःप्रभृति संपन्नं, नाम मे विषमेक्षणः ॥ ५०८॥ विषमेक्षणतुल्यो यो, यदि मध्येऽस्ति कश्चन । तदा विभेम्यहं भद्रा !, भाषमाणोऽपि भाषितुम् ॥ ५०९॥ एकत्रावसिते मूर्खे, निगद्येति खमूर्खताम् । द्वितीयेनेति प्रारब्धा, शंसितुं ध्वस्तबुद्धिना ॥ ५१०॥ एकीकृत्य समस्तानि, विरूपाणि प्रजासृजा । कृते भार्य ममाभूतां, द्वे शङ्केऽर्ककलाधरे ॥५११॥ वहन्ती परमां प्रीति, प्रेयसी चरणं मम । एका क्षालयते वाम, द्वितीया दक्षिणं पुनः ॥ ५१२॥ रुक्षीखरीति संज्ञाभ्यां, ताभ्यां सार्धमनेहसि । प्रयाति रममाणस्य, ममेष्टसुखभागिनः॥ ५१३ ॥ एकं रुक्षी निचिक्षेप, प्रक्षाल्य प्रीतमानसा । पादस्योपरि मे पादं, प्राणेभ्योऽपि गरीयसी ॥ ५१४ ॥
॥२०॥
in Educatan International
For Private & Personel Use Only
jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126