SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ धर्म परीक्षा. ॥२०॥ प्रज्वलन्त्यूवक्रस्य, मूषकेण दुरात्मना । पतिता नीयमाना मे, नेत्रस्योपरि वार्तिका ॥५०२॥ विचिन्तयितुमारब्धं, मयेदं व्याकुलात्मना। जागरित्वा ततः सद्यो, दह्यमाने विलोचने ॥ ५.३॥ यदि विध्यापयाम्यग्निं, हस्तमाकृष्य दक्षिणम् । तदा कुप्यति मे कान्ता, दक्षिणाथ परं परा ॥ ५०४॥ ततो भार्याभयग्रस्तः, स्थितस्तावदहं स्थिरः । स्फुटित्वा नयनं यावद्वामं काणं ममाऽभवत् ॥ ५०५॥ ज्वलित्वा स्फुटिते नेत्रे, शशाम ज्वलनः खयम् । नाकारि कश्चनोपायो, मया भीतेन शान्तये ॥ ५०६ ॥ मयेह सदृशो मूर्यो, विद्यते यदि कथ्यताम् । यः स्त्रीत्रस्तो निजं नेत्रं, दह्यमानमुपेक्षते ॥ ५०७॥ स्फुटितं विषमं नेत्रं, स्त्रीभीतस्य यतस्ततः। ततःप्रभृति संपन्नं, नाम मे विषमेक्षणः ॥ ५०८॥ विषमेक्षणतुल्यो यो, यदि मध्येऽस्ति कश्चन । तदा विभेम्यहं भद्रा !, भाषमाणोऽपि भाषितुम् ॥ ५०९॥ एकत्रावसिते मूर्खे, निगद्येति खमूर्खताम् । द्वितीयेनेति प्रारब्धा, शंसितुं ध्वस्तबुद्धिना ॥ ५१०॥ एकीकृत्य समस्तानि, विरूपाणि प्रजासृजा । कृते भार्य ममाभूतां, द्वे शङ्केऽर्ककलाधरे ॥५११॥ वहन्ती परमां प्रीति, प्रेयसी चरणं मम । एका क्षालयते वाम, द्वितीया दक्षिणं पुनः ॥ ५१२॥ रुक्षीखरीति संज्ञाभ्यां, ताभ्यां सार्धमनेहसि । प्रयाति रममाणस्य, ममेष्टसुखभागिनः॥ ५१३ ॥ एकं रुक्षी निचिक्षेप, प्रक्षाल्य प्रीतमानसा । पादस्योपरि मे पादं, प्राणेभ्योऽपि गरीयसी ॥ ५१४ ॥ ॥२०॥ in Educatan International For Private & Personel Use Only jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy