Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education In
आनीय वनपालेन, क्षितिपालस्य दर्शितम् । तत्पक्कं तुष्टचित्तेन सर्व्वाक्षहरणक्षमम् ॥ ३८५ ॥ तन्माकन्दफलं दुष्टमविज्ञाय प्रमोदतः । अदायि युवराजस्य, राज्ञा दृष्ट्वा मनोरमम् ॥ ३८६ ॥ प्रसाद इति भाषित्वा, तदादाय नृपात्मजः । चखादासुहरं घोरं, कालकूटमिव द्रुतम् ॥ ३८७ ॥ स तत्खादनमात्रेण, बभूव प्राणवर्जितः । जीवितं हरते कस्य, दुष्टसेवा न कल्पिता ? ॥ ३८८ ॥ विपन्नं वीक्ष्य राजन्यं, राजा चूतमखण्डयत् । उद्यानमण्डनीभूतं, कोपानल वितापितः ॥ ३८९ ॥ काशशोकजरा कुष्ठच्छर्दिशूलक्षयादिभिः । रोगैर्जीवितनिर्भिन्ना, दुःसाधैः पीडिता जनाः ॥ ३९० ॥ अनिशविषमाकन्दं, खण्डितं क्षितिपालिना । आदायाऽखादिपुः सर्व्वे, प्राणमोक्षणकाङ्क्षिणः || ३९१ ॥ युग्मम् ॥ तदाखादनमात्रेण, सर्व्वव्याधिविवर्जिताः । अभूवन्निखिलाः सद्यो, मकरध्वजमूर्त्तयः ॥ ३९२ ॥ आकर्ण्याकल्यतां राजा, तानाह्नाय सविस्मयः । प्रत्यक्षीकृत्य दुश्छेद्यं, विषादं तरसाऽगमत् ॥ ३९३ ॥ विचित्रपत्रसङ्कीर्णः, क्षितिमण्डलमण्डितः । सर्व्वाश्वासकरश्वतो, यश्चक्रीव महोदयः ॥ ३९४ ॥ दूरीकृत विचारेण, कोपान्धीकृतचेतसा । निर्मूलका षमुत्तुङ्गः, स मया कषितः कथम् ? ॥ ३९५ ॥ युग्मम् ॥ अविचार्य फलं दत्तं, हा किं दुर्मेधसा मया ? । यदि दत्तं कुतश्छिन्नश्वतो रोगनिसूदकः १ ॥ ३९६ ॥ इत्थं वज्राननेष, दुर्निवारेण सन्ततम् । अदह्यत चिरं राजा, पश्चात्तापेन मानसे ॥ ३९७ ॥
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126