Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Rootstort
विचिन्त्येति तदादाय, कदोष्णं गोमयं नवम् । प्रक्षिप्तैकैकगोधूमकणं निन्द्यं बहुद्रवम् ॥ २५५॥ गृहाण त्वमिदं नीत्वा, जेमनं वितर प्रभोः। इत्युक्त्वा भाजने कृत्वा, सुन्दर्या सा समर्पयत् ॥२५६॥ युग्मम् ॥ आनीयैतत्तया दत्तं, स्तावं स्तावमभक्षयत् । भोजनं सुन्दरं हित्वा, स शूकर इवाशुचिम् ॥ २५७॥ गोमयं केवलं भुक्त्वा, शालायां स निविष्टवान् । ग्रामकूटो द्विजं प्रष्टुं, प्रवृत्तः प्रेयसीक्रुधम् ॥ २५८ ॥ किं प्रेयसी मम कुद्धा! किं किंचिद् भणिता त्वया ? । ममाथ दुर्णयः कश्चित्कथ्यतां भद्र ! निश्चयम् ॥२५९॥ सोऽवादीद् भद्र! तावत्ते, तिष्ठतु प्रेयसीस्थितिः। श्रूयतां चेष्टितं स्त्रीणां, सामान्येन निवेद्यते ॥ २६॥ न सोऽस्ति विष्टपे दोषो, विद्यते यो न योषिताम् । कुतस्तनोऽधकारोऽसौ, शर्वर्या यो न जायते ॥ २६१॥ बहुनात्र किमुक्तेन ? महत्तर ! निबुध्यताम् । प्रत्यक्षा वैरिणी गेहे, कुरङ्गी तव तिष्ठति ॥ २६२॥ विटेभ्यो निखिलं दत्वा, तव द्रव्यं विनाशितम् । कुरङ्गया पापया तस्याश्चरित्रमिव दुर्लभम् ॥ २६३॥ तव या हरते द्रव्यं, निर्भयीभूतमानसा । हरन्ती वार्यते केन, जीवितं सा दुराशया ? ॥२६४ ॥ निशम्येति वचस्तस्य, विप्रस्य हितभाषिणः। स गत्वा सूचयामास, कुरड्याः सकलं कुधीः ॥२६५ ॥ सा जगाद दुराचारः, शीलं मे हर्जुमुद्यतः । मया खामिनिषिद्धोऽयं, भाषते दूषणं मम ॥ २६६ ॥ अन्यायानामशेषाणां, नक्राणामिव नीरधिः। निधानमिव दुष्टात्मा, क्षिप्रं निर्धाव्यतां प्रभो! ॥२६७॥
Jain Educaton
For Private & Personel Use Only
Kiw.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126