SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Rootstort विचिन्त्येति तदादाय, कदोष्णं गोमयं नवम् । प्रक्षिप्तैकैकगोधूमकणं निन्द्यं बहुद्रवम् ॥ २५५॥ गृहाण त्वमिदं नीत्वा, जेमनं वितर प्रभोः। इत्युक्त्वा भाजने कृत्वा, सुन्दर्या सा समर्पयत् ॥२५६॥ युग्मम् ॥ आनीयैतत्तया दत्तं, स्तावं स्तावमभक्षयत् । भोजनं सुन्दरं हित्वा, स शूकर इवाशुचिम् ॥ २५७॥ गोमयं केवलं भुक्त्वा, शालायां स निविष्टवान् । ग्रामकूटो द्विजं प्रष्टुं, प्रवृत्तः प्रेयसीक्रुधम् ॥ २५८ ॥ किं प्रेयसी मम कुद्धा! किं किंचिद् भणिता त्वया ? । ममाथ दुर्णयः कश्चित्कथ्यतां भद्र ! निश्चयम् ॥२५९॥ सोऽवादीद् भद्र! तावत्ते, तिष्ठतु प्रेयसीस्थितिः। श्रूयतां चेष्टितं स्त्रीणां, सामान्येन निवेद्यते ॥ २६॥ न सोऽस्ति विष्टपे दोषो, विद्यते यो न योषिताम् । कुतस्तनोऽधकारोऽसौ, शर्वर्या यो न जायते ॥ २६१॥ बहुनात्र किमुक्तेन ? महत्तर ! निबुध्यताम् । प्रत्यक्षा वैरिणी गेहे, कुरङ्गी तव तिष्ठति ॥ २६२॥ विटेभ्यो निखिलं दत्वा, तव द्रव्यं विनाशितम् । कुरङ्गया पापया तस्याश्चरित्रमिव दुर्लभम् ॥ २६३॥ तव या हरते द्रव्यं, निर्भयीभूतमानसा । हरन्ती वार्यते केन, जीवितं सा दुराशया ? ॥२६४ ॥ निशम्येति वचस्तस्य, विप्रस्य हितभाषिणः। स गत्वा सूचयामास, कुरड्याः सकलं कुधीः ॥२६५ ॥ सा जगाद दुराचारः, शीलं मे हर्जुमुद्यतः । मया खामिनिषिद्धोऽयं, भाषते दूषणं मम ॥ २६६ ॥ अन्यायानामशेषाणां, नक्राणामिव नीरधिः। निधानमिव दुष्टात्मा, क्षिप्रं निर्धाव्यतां प्रभो! ॥२६७॥ Jain Educaton For Private & Personel Use Only Kiw.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy